________________
નવાંગીવૃત્તિકાર આ.ભ.શ્રી અભયદેવસૂરિજી મહારાજનું જીવનચરિત્ર
सर्वाभिगमपूर्वं स प्रणम्योपाविशत् प्रभुम् । तौ विधाय निविष्टौ च करसंपुटयोजनम् ॥३७॥ वर्यलक्षणवर्यां च दध्यौ वीक्ष्य तनुं तयोः । गुरुराहाऽनयोर्मूर्तिः सम्यक् स्वपरजित्वरी ॥३८॥ तौ च प्राग्भवसंबद्धाविवानिमिषलोचनौ । वीक्षमाणौ गुरोरास्यं व्रतयोग्यौ च तैर्मतौ ॥३९॥ देशनाभांशुभिर्ध्वस्ततामसौ बोधरङ्गिणौ । लक्ष्मीपत्यनुमत्या च दीक्षितौ शिक्षितौ तथा॥४०॥ महाव्रतभरोद्धारधुरीणौ तपसां निधी । अध्यापितौ च सिद्धान्तं योगोद्वहनपूर्वकम् ॥४१॥ ज्ञात्वौचित्यं च सूरित्वे स्थापितौ गुरुभिश्च तौ । शुद्धवासो हि सौरभ्यवासं समनुगच्छति ॥४२॥ जिनेश्वरस्ततः सूरिरपरो बुद्धिसागरः । नामभ्यां विश्रुतौ पूज्यैर्विहारेऽनुमतौ तदा ॥४३॥ ददे शिक्षेति तैः श्रीमत्पत्तने चैत्यसूरिभिः । विघ्नं सुविहितानां स्यात्तत्रावस्थानवारणात् ॥४४॥ युवाभ्यामपनेतव्यं शक्त्या बुद्ध्या च तत् किल । यदिदानींतने काले नास्ति प्राज्ञो भवत्समः।।४५।।युग्मम्। अनुशास्तिं प्रतीच्छाव इत्युक्त्वा गुर्जरावनौ । विहरन्तौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥४६॥ सद्गीतार्थपरीवारौ तत्र भ्रान्तौ गृहे गृहे । विशुद्धोपाश्रयालाभाद् वाचां सस्मरतुर्गुरोः ॥४७।। श्रीमान् दुर्लभराजाख्यस्तत्र चासीद्विशांपतिः । गी:पतेरप्युपाध्यायो नीतिविक्रमशिक्षणे ॥४८।। श्रीसोमेश्वरदेवाख्यस्तत्र चासीत् पुरोहितः । तद्गेहे जग्मतुर्युग्मरूपौ सूर्यसुताविव ॥४९।। तद्द्वारे चक्रतुर्वेदोच्चारं संकेतसंयुतम् । तीर्थं सत्यापयन्तौ च ब्राह्यं पित्र्यं च दैवतम् ॥५०॥ चतुर्वेदीरहस्यानि सारणीशुद्धिपूर्वकम् । व्याकुर्वन्तौ स शुश्राव देवतावसरे ततः ॥५१।। तद्ध्वानध्याननिर्मग्नचेताः स्तम्भितवत्तदा । समग्रेन्द्रियचैतन्यं श्रुत्योरेव स नीतवान् ॥५२॥ ततो भक्त्या निजं बन्धुमाप्याय वचनामृतैः । आह्वानाय तयोः प्रेषीत् प्रेक्षापेक्षी द्विजेश्वरः ॥५३॥ तौ च दृष्ट्वान्तरायातौ दध्यावम्भोजभूः किमु । द्विधाभूयाऽद आदत्त दर्शनं शस्यदर्शनम् ॥५५॥ हित्वा भद्रासनादीनि तद्दत्तान्यासनानि तौ । समुपाविशतां शुद्धस्वकम्बलनिषद्ययोः ॥५५।। वेदोपनिषदां जैनतत्त्वश्रुतगिरां तथा । वाग्भिः साम्यं प्रकाश्यैतावभ्यधत्तां तदाशिषम् ॥५६।। तथाहि- अपाणिपादो ह्यमनो (जवनो) ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति विश्वं नहि तस्यास्ति वेत्ता शिवो ह्यरूपी स जिनोऽवताद् वः ॥५७।। ऊचतुश्चानयोः सम्यगवगम्यार्थसंग्रहम् । दययाभ्यधिकं जैनं तत्राऽऽवामाद्रियावहि ॥५८।। युवामवस्थितौ कुत्रेत्युक्ते तेनोचतुश्च तौ । न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः ॥५९।। चन्द्रशालां निजां चन्द्रज्योत्स्नानिर्मलमानसः । स तयोरार्पयत्तत्र तस्थतुः सपरिच्छदौ ॥६०॥ द्विचत्वारिंशता भिक्षादोषैर्मुक्तमलोलुपौ । नवकोटिविशुद्धं चायातं भैक्षमभुञ्जताम् ॥६१।। मध्याह्ने याज्ञिकस्मार्त्तदीक्षितानग्निहोत्रिणः । आहूय दर्शितौ तत्र नियूंढौ तत्परीक्षया ॥६२।। यावद्विद्याविनोदोऽयं विरिञ्चेरिव पर्षदि । वर्तते तावदाजग्मुर्नियुक्ताश्चैत्यमानुषाः ॥६३।। ऊचुश्च ते झटित्येव गम्यतां नगराद् बहिः । अस्मिन्न लभ्यते स्थातुं चैत्यबाह्यसिताम्बरैः ।६४।। पुरोधाः प्राह निर्णेयमिदं भूपसभान्तरे । इति गत्वा निजेशानामाख्यातमिह भाषितम् ॥६५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org