________________
નવાંગીવૃત્તિકાર આ.ભ.શ્રી અભયદેવસૂરિજી મહારાજનું જીવનચરિત્ર
तत्र लक्ष्मीपति म व्यवहारी महाधनः । यस्य श्रिया जितः श्रीदः कैलासाद्रिमशिश्रयत् ॥७॥ अन्यदा मध्यदेशीयकृष्णब्राह्मणनन्दनौ । प्रह्वप्रज्ञाबलाक्रान्तवेदविद्याविशारदौ ॥८॥ अधीतपूर्विणौ सर्वान् विद्यास्थानांश्चतुर्दश । स्मृत्यैतिह्यपुराणानां कुलकेतनतां गतौ ॥९॥ श्रीधरः श्रीपतिश्चेतिनामानौ यौवनोद्यमात् । देशान्तरदिदृक्षायै निर्गतौ तत्र चागतौ॥१०॥ त्रिभिर्विशेषकम्। तौ पवित्रयतः स्मात्र लक्ष्मीधरगृहाङ्गणम् । सोऽपि भिक्षां ददौ भक्त्या तदाकृतिवशीकृतः ॥११॥ गेहाभिमुखभित्तौ च लिख्यते स्मास्य लेखकम् । टंकविंशतिलक्षाणां नित्यं ददृशतुश्च तौ ॥१२॥ सदा दर्शनतः प्रज्ञाबलादप्यतिसंकुलम् । तत् परिस्फुरितं सम्यक् सदाभ्यस्तमिवानयोः ॥१३॥ जनो मत्पार्श्वतः सूपकारवत्सूपकारवान् । वर्त्तते निष्ठुरः किंतु मम किंचिन्न यच्छति ॥१४॥ ब्राह्मणा अपि गीर्वाणान् मन्मुखादाहुतिप्रदाः । तर्पयन्तु फलं तु स्यात्तत्कर्मकरतैव मे ॥१५॥ इतीव कुपितो वह्निरहैकेनापि भस्मसात् । विदधे तां पुरीमूरीकृतप्रतिकृतक्रियः ॥१६॥ त्रिभिर्विशेषकम्। लक्ष्मीपतिर्द्वितीयेऽह्नि न्यस्तहस्तः कपोलयोः । सर्वस्वनाशतः खिन्नो लेख्यदाहाद्विशेषतः ॥१७|| प्राप्ते काले गतौ भिक्षाकृते तस्य गृहाङ्गणे । प्राप्तौ प्लुष्टं च तद् दृष्ट्वा विषण्णाविदमूचतुः ॥१८॥ यजमान तवोनिद्रकष्टेनाऽऽवां सुदुःखितौ । किं कुर्वहे क्षुधा किंतु सर्वदुःखातिशायिनी ॥१९॥ पुनरीदृक्शुचाक्रान्तसत्त्ववृत्तिर्भवान् किमु । धीराः सत्त्वं न मुञ्चन्ति व्यसनेषु भवादृशाः ॥२०॥ इत्याकर्ण्य तयोर्वाक्यमाह श्रेष्ठी निशम्यताम् । न मे धनान्नवस्त्रादिदाहाद् दुःखं हि तादृशम् ॥२१॥ यादृग्लेख्यकनाशेन निर्धर्मेण जनेन यत् । कलहः संभवी धर्महानिकृत् क्रियते हि किम् ॥२२॥ युग्मम्। जजल्पतुश्च तानावां भिक्षावृत्ती तवापरम् । शक्नुवो नोपकर्तुं हि व्याख्यावो लेख्यकं पुनः ॥२३।। श्रुत्वातिहर्षभूः श्रेष्ठी स्वपुरस्तौ वरासने । न्यवेशयज्जनः स्वार्थपूरकं ध्रुवमर्हति ॥२४॥ तौ चादितः समारभ्यतिथिवारर्भसंगतम् । व्यक्तवत्सरमासाङ्कसहितं खटिनीदलैः ॥२५।। वर्णजात्यभिधामूलद्रव्यसंख्यानवृद्धिभृत् । आख्यातं लेख्यकं स्वाख्याख्यानवद्धिषणाबलात् ॥२६॥ पत्रकेषु लिखित्वा तत् श्रेष्ठी दध्यावहो इमौ । मम गोत्रसुरौ कौचित् प्राप्तौ मदनुकम्पया ॥२७|| यद्विशोपकमात्रेण वदन्तौ तावविस्मृतम् । दस्तरी-संपुटी-पत्रनिरपेक्षं हि लेख्यकम् ॥२८॥ युग्मम्। ततः सन्मान्य सद्भोज्यवस्त्राद्यैर्बहुमानतः । स्वगेहचिन्तकौ तेन विहितौ हितवेदिना ॥२९।। जितेन्द्रियौ स तौ शान्तौ दृष्ट्वेति व्यमृशद्धनी। शिष्यौ मद्गुरुपाद्येऽमू स्तां चेत् तत्संघभूषणौ ॥३०॥ इतः सपादलक्षेऽस्ति नाम्ना कूर्चपुरं पुरम् । मषीकूर्चकमाधातुं यदलं शात्रवानने ॥३१॥ अल्लभूपालपौत्रोऽस्ति प्राक्पोत्रीवधराधरः । श्रीमान् भुवनपालाख्यो विख्यातः सान्वयाभिधः ॥३२॥ तत्रासीत् प्रशमश्रीभिर्वर्द्धमानगुणोदधिः । श्रीवर्धमान इत्याख्यः सूरिः संसारपारभूः ॥३३।। चतुर्भिरधिकाशीतिश्चैत्यानां येन तत्यजे । सिद्धान्ताभ्यासतः सत्यतत्त्वं विज्ञाय संसृतेः ॥३४।। अन्यदा विहरन् धारापुर्यां धाराधरोपमः । आगाद्वाग्ब्रह्मधाराभिर्जनमुज्जीवयन्नयम् ॥३५।। लक्ष्मीपतिस्तदाकर्ण्य श्रद्धालक्ष्मीपतिस्ततः । ययौ प्रद्युम्नशाम्बाभ्यामिव ताभ्यां गुरोर्नतौ ॥३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org