________________
३०८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ऋषिपर्यायत्वात्, तथा श्रुतमिति वैतदाख्यायते, परोक्षतया त्रैकालिकार्थावबोधनसहत्वादस्य, तथा श्रुताङ्गमिति वा श्रुतस्य प्रवचनस्य पुरुषरूपस्याङ्गम् अवयव इति कृत्वा, तथा श्रुतसमास इति [वा] समस्तसूत्रार्थानामिह संक्षेपेणाभिधानात्,
श्रुतस्कन्ध इति वा श्रुतांशसमुदायरूपत्वादस्य, समाए इ व त्ति समवाय इति वा, 5 समस्तानां जीवादिपदार्थानामभिधेयतयेह समवायनात् मीलनादित्यर्थः, तथा एकादिसंख्याप्रधानतया पदार्थप्रतिपादनपरत्वादस्य संख्येति वाऽऽख्यायते, तथा समस्तं परिपूर्णं तदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेनाचारादाविवाङ्गतेति भावः, तथा अज्झयणं ति त्ति समस्तमेतदध्ययनमित्याख्यातं नेहोद्देशकादिखण्डनाऽस्ति
शस्त्रपरिज्ञादिष्विवेति भावः, इतिशब्दः समाप्तौ । बेमि त्ति किल सुधर्मस्वामी 10 जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमि प्रतिपादयामि एतत् श्रीमन्महावीरवर्द्धमानस्वामिनः
समीपे यदवधारितमित्यनेन गुरुपारम्पर्यमर्थस्य प्रतिपादितं भवति, एवं च शिष्यस्य ग्रन्थे गौरवबुद्धिरुपजनिता भवति, आत्मनश्च गुरुषु बहुमानो दर्शित औद्धत्यं च परिहृतम्, अयमेवार्थः शिष्यस्य सम्पादितो भवति मुमुक्षूणां चायं मार्ग इत्यावेदितमिति समवायाख्यं चतुर्थमङ्गं वृत्तितः समाप्तम् ॥
नमः श्रीवीराय प्रवरवरपार्थाय च नमो । नमः श्रीवाग्देव्यै वरकविसभाया अपि नमः । नमः श्रीसङ्घाय स्फुटगुणगुरुभ्योऽपि च नमो नमः सर्वस्मै च प्रकृतविधिसाहायककृते ॥१॥ यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षं सहस्राणि च, चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् । तस्योच्चैश्चुलुकाकृतिं निदधतः कालादिदोषात्तथा,
दुर्लेखात् खिलतां गतस्य कुधियः कुर्वन्तु किं मादृशाः ? ॥२॥ १. व्याख्यायत खं० । जे१ मध्ये पत्रं खण्डितम् ॥ २. सदेत जे२ हे१,२ ॥ ३. “सहायाद्वा" - सि० असश योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ्" . सि०७१।७२॥ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org