________________
[सू० १५९] टीकाकृद्विरचिता प्रशस्तिः ।
३०९ स्वं कष्टेऽतिनिधाय कष्टमधिकं मा मेऽन्यदा जायताम्, व्याख्यानेऽस्य तथा विवेक्तुमनसामल्पश्रुतानाममुम् । इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च, दुर्व्याख्यानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः ॥३॥ इह वचसि विरोधो नास्ति सर्वज्ञवाक्त्वात्, क्वचन तदवभासो यः स मान्द्यान्नृबुद्धेः। 5 वरगुरुविरहाद्वाऽतीतकाले मुनीशैर्गणधरवचनानां प्रस्तसङ्घातनाद्वा ॥४॥ व्याख्यानं यद्यपीदं प्रवरकविवचःपारतन्त्र्येण दृब्धम् सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः । किन्तु श्रीसङ्घबुद्धेरनुसरणविधेर्भावशुद्धेश्च दोषो मा मेऽभूदल्पकोऽपि प्रशमपरमना अस्तु देवी श्रुतस्य ।।५।। निःसम्बद्धविहारहारिचरितान् श्रीवर्द्धमानाभिधान् सूरीन् ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः । श्रीमत्सूरिजिनेश्वरस्य जयिनो दपीयसां वाग्मिनाम्, तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि ॥६॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः ॥७॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम् ॥८॥ प्रत्यक्षरं निरूप्यास्याः ग्रन्थमानं विनिश्चितम् । त्रीणि श्लोकसहस्राणि, पादन्यूना च षट्शती ॥९॥
10
15
१. श्रस्त खं० हे१,२ ॥ २. स्ताच्च देवी जे२ हे१ ॥ ३. "विहारिहारि' खं० । जे१ मध्ये पत्रं खण्डितम् ।। ४. विवृत्तिः जे१,२ । खं० मध्ये पत्रं खण्डितम् ॥ ५. 'स्राणि पादन्यूनानि जे१ खंमू० । °म्राणि पादन्यूना च खसं०॥६पादोनाष्टशती तथा । ग्रंथाग्रं ३७७५ । शुभं भवतु श्री मणसंघस्य हे२ ॥ हे२ = अणहिलपुरपत्तने = पाटणनगरे) श्रीहेमचन्द्राचार्यज्ञानमन्दिरै ९९९७ ग्रन्थक्रमाके विद्यमानः कागजपत्रोपरिलिखित आदर्शः । पत्रसंख्या १-६९ । अयमादर्शः षोडशे वैक्रमे शतके लिखितः प्रतिभाति ।। ७ शुभं भवतु श्रीसंघस्य ॥ श्री कल्याणमस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org