SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ [सू० १५९] ३०७ तीर्थकरनामादि । च उपशान्तसंज्ञं धूतरजसं १५ वन्दे खलु गुप्तिसेनं च १६ ॥१४४॥ ___ अइपासं गाहा, अतिपाद्यं च १७ सुपार्श्व १८ देवेश्वरवन्दितं च मरुदेवं १९ निर्वाणगतं च धरं धरसंज्ञं २० क्षीणदुःखं श्यामकोष्ठं च २१ ॥१४५॥ जिय गाहा, जितरागमग्निसेनं महासेनापरनामकं २२ वन्दे क्षीणरजसमग्निपुत्रं च २३ व्यवकृष्टप्रेमद्वेषं च वारिषेणं २४ गतं सिद्धिमिति, स्थानान्तरे 5 किञ्चिदन्यथाप्यानुपूर्वी नाम्नामुपलभ्यते ॥१४६।। महापद्मादयो विजयान्ताश्चतुर्विंशतिः ॥१४८|| एवमिदं सर्वं सुगम ग्रन्थसमाप्ति यावत्, नवरम् आयाए त्ति बलदेवादेरायातं देवलोकादेश्च्युतस्य मनुष्येषूत्पादः सिद्धिश्च यथा रामस्येति, एवं दोसु वि त्ति भरतैरावतयोरागमिष्यन्तो वासुदेवादयो भणितव्याः। [सू० १५९] इच्चेतं एवमाहिज्जति, तंजहा- कुलगरवंसे ति य एवं तित्थगरवंसे 10 ति य चक्कवहिवंसे ति य दसारवंसे ति य गणधरवंसे ति य इसिवंसे ति य जतिवंसे ति य मुणिवंसे ति य सुते ति वा सुतंगे ति वा सुतसमासे ति वा सुतखंधे ति वा समाए ति वा संखेति वा । समत्तमंगमक्खायं, अज्झयणं ति त्ति बेमि ॥ ॥ समवाओ चउत्थमंगं सम्मत्तं ॥ ग्रं० १६६७॥ 15 [टी०] इत्यमेवमनेकधाऽर्थानुपदाधिकृतग्रन्थस्य यथार्थान्यभिधानानि दर्शयितुमाहइत्येतदधिकृतशास्त्रमेवमनेनाभिधानप्रकारेणाऽऽख्यायते अभिधीयते, तद्यथाकुलकरवंशस्य तत्प्रवाहस्य प्रतिपादकत्वात् कुलकरवंश इति च, इतिरुपदर्शने, चशब्दः समुच्चये, एवं तित्थगरवंसे इ यत्ति यथा देशेन कुलकरवंशप्रतिपादकत्वात् कुलकरवंश इत्येतदाख्यायते एवं देशतस्तीर्थकरवंशप्रतिपादकत्वात् तीर्थकरवंश इति 20 च आख्यायते एतदिति, एवं चक्रवर्तिवंश इति च दशारवंश इति च गणधरवंश इति च, गणधरव्यतिरिक्ताः शेषा जिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इति च, तत्प्रतिपादनं चात्र पर्युषणाकल्पस्य समस्तस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्वादत एव यतिवंशो मुनिवंशश्चैतदुच्यते, यति-मुनिशब्दयोः १. सिद्धिश्च यथा रामस्येति नास्ति जे२ हे१ । जे१ मध्ये पत्रं त्रुटितम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy