________________
३०६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तथा- अस्सग्गीवे तारए मेरए महुकेढवे निसुंभे य ।
बलि पहराए तह रावणे य नवमे जरासंधे ॥ [आव० भा० ४२] त्ति । एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे वि चक्कजोही सव्वे वि हया सचक्केहिं ॥ [आव० भा० ४३] ति । अणियाणकडा रामा सव्वे वि य केसवा नियाणकडा ।
उड्ढंगामी रामा केसव सव्वे अहोगामी ॥ [आव० नि० ४१५] ति । आगमिस्सेणं ति आगमिष्यता कालेन आगमेस्साणं ति पाठान्तरे आगमिष्यतां भविष्यतां मध्ये सेत्स्यतीति ॥१४१।।
जम्बूद्वीपैरवते अस्यामवसर्पिण्यां चतुर्विंशतिस्तीर्थकरा अभूवन्, तांश्च 10 स्तुतिद्वारेणाह- चंदाणणं गाहा। चन्द्राननं १ सुचन्द्रं च २ अग्निसेनं च ३ नन्दिषेणं
च ४ । क्वचिदात्मसेनोऽयं दृश्यते । ऋषिदिन्नं च ५ व्रतधारिणं च ६ वन्दामहे श्यामचन्द्रं च ७ ॥१४२॥
वंदामि गाहा, वन्दे युक्तिसेनं क्वचिदयं दीर्घबाहुर्दीघसेनो वोच्यते ८, अजितसेनं क्वचिदयं शतायुरुच्यते ९, तथैव शिवसेनं क्वचिदयं सत्यसेनोऽभिधीयते सत्यकिश्चेति 15 १०, बुद्धं चावगततत्त्वं च देवशर्माणं देवसेनापरनामकं ११, सततं सदा वन्दे इति
प्रकृतम्, निक्षिप्तशस्त्रं च नामान्तरतः श्रेयांसम् १२ ॥१४३।। - असंजलं गाहा, असंज्वलं जिनवृषभं पाठान्तरेण अस्वयंज्वलं १३, वन्दे अनन्तजितममितज्ञानिनं सर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति १४, उपशान्तं १. रामणे जे१,२ हे१,२ ॥ २. °संध त्ति जे१ खमू० । °संधु त्ति खंसं० ॥ ३. “एते खलु प्रतिशत्रवः, एते एव, खलुशब्दस्य अवधारणार्थत्वात्, नान्ये, कीर्तिपुरुषाणां वासुदेवानाम्, सर्वे चक्रयोधिनः, सर्वे च हता: स्वचक्रैरिति, यतस्तान्येव तच्चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः पुण्योदयात् वासुदेवं प्रणम्य तानेव व्यापादयन्ति इति गाथार्थः ॥४३॥ अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः । भावार्थः सुगमः, नवरं प्राकृतशैल्या पूर्वापरनिपातः अनिदानकृता रामाः इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यम्, केशवास्तु कृतनिदाना इति गाथार्थः ।।४१५॥” इति आवश्यकसूत्रस्य हारिभद्र्यां वृत्तौ ॥ ४. सचक्केण । अणि जे२ ॥ ५. गामि त्ति जे१ ॥ ६. सेत्स्यंतीति खं० ॥ ७. नंदिसेणं जे२ हे२ ॥ ८. °सेनो दृश्यते जे२ ॥ ९. च नास्ति जे१,२ हे१,२ ॥ १०. अनन्तजिनम जे२ हे१ । अनन्तकं तं जिनम' हे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org