SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ [सू० १५८] वासुदेव-बलदेववर्णनम् । ३०५ ललितो मनोहरो विक्रमः संचरणं तद्वद्विलासिता संजातविलासा गतिः गमनं येषां ते मत्तगजवरेन्द्रललितविक्रमविलासितगतयः, तथा शरदि भवः शारदः स चासौ नवं स्तनितं रसितं यस्मिन्नि?षे स नवस्तनित: स चेति समासः, स चासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषः पक्षिविशेषनिनादस्तद्वद् दुन्दुभिस्वरवच्च स्वरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रौञ्चनिर्घोषदुन्दुभिस्वराः, इह च शरत्काले हि 5 क्रौञ्चा माद्यन्ति मधुरध्वनयश्च भवन्तीति शारदग्रहणम्, तथा पौनःपुण्येन शब्दप्रवृत्तौ तद्भङ्गादमनोज्ञता तस्य स्यादिति नवस्तनितग्रहणं स्वरूपोपदर्शनार्थं तु मधुरगम्भीरग्रहणमिति, तथा कटीसूत्रकम् आभरणविशेषस्तत्प्रधानानि नीलानि बलदेवानां पीतानि वासुदेवानां कौशेयकानि वस्त्रविशेषभूतानि वासांसि वसनानि येषां ते कटीसूत्रकनीलपीतकौशेयवाससः, प्रवरदीप्ततेजसो वरप्रभावतया वरदीप्तितया 10 च, नरसिंहा विक्रमयोगात्, नरपतयः तन्नायकत्वात्, नरेन्द्राः परमैश्वर्ययोगात्, नरवृषभा उत्क्षिप्तकार्यभरनिर्वाहकत्वात्, मरुवृषभकल्पाः देवराजोपमाः, अभ्यधिकं शेषराजेभ्यः राजतेजोलक्ष्म्या दीप्यमानाः, नीलकपीतकवसना इति पुनर्भणनं निगमनार्थम्, कथं ते नवेत्याह- दुवे दुवे इत्यादि, एवं च नव वासुदेवा नव बलदेवा इति, तिविठू य यावत्करणात् दुविद य सयंभु पुरिसुत्तमे पुरिससीहे। 15 तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ।। [आव० भा० ४०] त्ति, अयले विजये भद्दे सुप्पभे य सुदंसणे । आनंदे णंदणे पउमे रामे आवि अपच्छिमे ॥ [आव० भा० ४१] त्ति । कित्तीपुरिसाणं ति कीर्तिप्रधानपुरुषाणामिति ॥१३४॥ महुरा य कणगवत्थू सावत्थी पोयणं च रायगिहं । कायंदी कोसंबी मिहिलपुरी हत्थिणपुरं च ॥ [आव० प्र० ] तथा- गावी जुए संगामे तह इत्थी पराइओ रंगे । भजाणुराग गोट्ठी परइडी माउया इ य ॥ [आव० प्र० ] त्ति । 20 ... .१. मधुर खं० । २. आवश्यकनियुक्ती प्रक्षिप्तेयं गाभा । ३. 4 गुए खं० १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy