________________
[सू० १५७] शिबिका-तीर्थकरसहदीक्षित-भिक्षा-चैत्यवृक्षादिवर्णनम् ।
२९१ प्राकृतत्वात् तस्मिन् काले सामान्येन दुःषमसुषमालक्षणे, तस्मिन् समये विशिष्टे यत्र भगवानेव विहरति स्मेति । कप्पस्स समोसरणं नेयव्वं ति इहावसरे कल्पभाष्यक्रमेण समवसरणवक्तव्यताऽध्येया, सा चाऽऽवश्यकोक्ताया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम्, कियदूरमित्याह- जाव गणेत्यादि, तत्र गणधरः पञ्चमः सुधर्माख्यः सापत्यः, शेषा निरपत्या: अविद्यमानशिष्यसन्ततय इत्यर्थः, 5 वोच्छिन्न त्ति सिद्धा इति, तथाहि
परिनिव्वुया गणहरा जीवंते नायए नव जणा उ ।
इंदभूई सुहम्मे य रायगिहे निव्वुए वीरे ॥ [आव० नि० ६५८] त्ति । अयं च समवसरणनायकः कुलकरवंशोत्पन्नो महापुरुषश्चेति कुलकराणां वरपुरुषाणां च वक्तव्यतामाह- जंबुद्दीवेत्यादि सुगमम्, नवरं
पढमेत्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे ।
तत्तो पसेणईए मरुदेवे चेव नाभी य ॥ [आव० नि० १५५] त्ति । तथा- चंदजस चंदकंता सुरूव पडिरूव चक्खुकंता य ।
सिरिकंता मरुदेवी कुलगरपत्तीण णामाई ॥ [आव० नि० १५९] ति ।
10.
१. बृहत्कल्पभाष्ये 'समोसरणे केवइया... ॥१९७६॥' इति गाथात आरभ्य 'संखाईए वि भवे.... ॥१२१७॥' इति गाथापर्यन्तं समवसरणवक्तव्यता वर्तते, किन्तु जाव गणहरा सावच्चा निरवच्चा वोच्छिन्ना इति अत्र जावशब्देन सूचितः कोऽपि पाठो बृहत्कल्पभाष्ये नास्ति । आवश्यकनिर्युक्तौ तु समोसरणे केवइया... ॥५४३॥ इत्यत आरभ्य जं कारण णिक्खमणं वोच्छं एएसि आणुपुव्वीए । तित्थं च सुहम्माओ णिरवच्चा गणहरा सेसा ॥५९५॥ इति पर्यन्ता बृहत्कल्पभाष्येण अक्षरशः समानप्राया बढ्यो गाथाः सन्ति, तत्र च निरवच्चा गणहरा सेसा इति पाठ उपलभ्यते॥ २. 'ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्य नव गणा इक्कारस गणहरा हुत्था । ....... सव्वे वि णं एते समणस्स भगवओ महावीरस्स एक्कारस वि गणहरा दुवालसंगि चउदसपुग्विणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदुक्खप्पहीणा। थेरे इंदभूई थेरे अज्जसुहम्मे य सिद्धिगए महावीरे पच्छा दोण्णि वि थेरा परिनिव्वुया, जे इमे अज्जत्ताए समणा निगंथा विहरंति एए णं सव्वे अजसुहम्मस्स अणगारस्स आवच्चिजा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना ।" इति पर्युषणाकल्पसूत्रे स्थविरावल्याम् ॥ ३. स्थानाङ्गसू० ५५६ । “प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति भावार्थः सुगम एवेति गाथार्थः ॥१५५॥ चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुःकान्ता च श्रीकान्ता मरुदेवी कुलकरपत्नीनां नामानीति गाथार्थः ॥१५९॥” इति आवश्यकसूत्रे हारिभत्र्यां वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org