SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धाचलमण्डन-श्रीऋषभदेवस्वामिने नमः । श्रीशान्तिनाथस्वामिने नमः । श्री शळेश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः । पूज्यपाद सद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । आमुखम् । अनन्तोपकारिणां परमकृपालूनां जिनेश्वराणां परमकृपया परमोपकारिणां पितृचरणानां सद्गुरुदेवानां पूज्यपादमुनिराजश्री भुवनविजयजीमहाराजानां च परमकृपया साहाय्येन च सम्पन्नं पू.आ.भ.श्रीअभयदेवसूरिविरचितया वृत्त्या विभूषितं पञ्चमगणधरदेवश्रीसुधर्मस्वामिपरम्परयाऽऽयातं श्री समवायाङ्गसूत्रं प्राचीन-प्राचीनतर-प्राचीनतमविविधहस्तलिखितादर्शानुसारेण संशोधन विधाय विविधैः परिशिष्टैश्च समलङ्कृत्य जिनागमरसिकानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । आ.प्र.पू.मुनिराजश्री पुण्यविजयजीमहाभागैः [प्रायः] चत्वारिंशतो वर्षेभ्यः प्राक् समवायाङ्गसूत्रस्य समवायाङ्गवृत्तेश्च संशोधनं विहितमासीत् । आगमोदयसमित्या विक्रमसं.१९७४ तमे वर्षे प्रकाशिते वृत्तिसहिते समवायाङ्गसूत्रे, सूत्रस्य वृत्तेश्च प्राचीनान् हस्तलिखितानादर्शानवलम्ब्य परःशताः शुद्धपाठाः तैः स्वयमेव लिखिताः । तमिमम् आ.प्र.पू.मु.श्री पुण्यविजयजीम. संशोधितमादर्शमवलम्ब्य अन्यांश्च प्राचीनान् हस्तलिखितादर्शान् उपयुज्य, संशोध्य, विविधैः परिशिष्टैश्चालङ्कृत्य सम्पादितोऽयं ग्रन्थोऽस्माभिः। यदस्मिन् विषये किञ्चिद् वक्तव्यं तद् गूर्जरभाषायां निबद्धायां प्रस्तावनायां लिखितमस्माभिरतस्तत्रैव द्रष्टव्यं जिज्ञासुभिः । किञ्चान्यत्, श्रीमहावीरजैनविद्यालयेन विक्रमसंवत् २०४१ तमे [ई.स.१९८५] वर्षे जैनआगम-ग्रन्थमालायां ग्रन्थाङ्क ३ रूपेण प्रकाशितस्य मूलमात्रस्य स्थानाङ्गसूत्रस्य समवायाङ्गसूत्रस्य च गूर्जरभाषानिबद्धायां प्रस्तावनायाम्, संस्कृतभाषानिबद्धे आमुखे, टिप्पणेषु, विविधेषु परिशिष्टेषु च यथायोगं विस्तरेण बहुतरं लिखितमस्माभिः । अतः सटीकस्य समवायाङ्गसूत्रस्य वैशद्येन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy