________________
आमुखम् अध्येतृभिः श्रीमहावीरजैनविद्यालयेन विक्रमसं. २०४१ तमे [ई.स.१९८५] वर्षे प्रकाशित स्थानाङ्गसूत्रं समवायाङ्गसूत्रं च अवश्यमेव उपयोज्यम् । एतदनुसारेणैव मूलरूपं समवायाङ्गसूत्रमस्मिन् सटीके समवायाङ्गसूत्रे मुद्रितम्, तथापि क्वचित् क्वचित् यथायोग्यं परिवर्तनमपि अत्र विहितमिति सुधीभिरवश्यं ध्येयम् ।
सटीकस्य स्थानाङ्गसूत्रस्य प्रथम-द्वितीय-तृतीयविभागेषु प्रस्तावनायाम् आमुखादौ परिशिष्टेषु च यल्लिखितमस्माभिः तदपि विशेषजिज्ञासुभिर्निरीक्षणीयम् ।। ___ वृत्तिसहितस्य समवायाङ्गसूत्रस्य संशोधने येषां हस्तलिखितानामादर्शानामुपयोगोऽस्माभिर्विहितः तेषां किञ्चित् स्वरूपम् अस्य ग्रन्थस्य प्रथमपत्रेऽन्तिमपत्रे चाधस्तात् टिप्पने प्रदर्शितम् । ___ अस्माभिः संशोधिता ग्रन्थाः शृङ्खलारूपेण प्रकाश्यन्ते । अतो ये ग्रन्थाः पूर्वं प्रकाशिताः तेषु याः अशुद्धयो दृष्टिपथमवतीर्णाः तासामपि परिमार्जनं संस्करणं च अस्माभिः ग्रन्थान्तरेषु विधीयते- विधास्यते च । अतः सटीकस्य स्थानाङ्गस्य प्रथम-द्वितीय-तृतीयविभागानां शुद्धिवृद्धिपत्रकमस्मिन् समवायाङ्गे नवमे परिशिष्टे द्रष्टव्यम् । तदनुसारेण स्थानाङ्गेऽपि शुद्धिर्वृद्धिश्च सुधीभिः स्वयमेव करणीया ।
__ यत्र पाठे किञ्चिद् विशेषतो वक्तव्यं तत्र * एतादृशं चिह्न विहितम्, तत्र विशेषजिज्ञासुभिः तृतीये परिशिष्टे टिप्पनेषु द्रष्टव्यम् ।
अस्माकं या सम्पादने संशोधने च शैली सा पूर्वतनेषु ग्रन्थेषु प्रस्तावनादौ निवेदिता एव इति तत एवावधार्या ।
धन्यवादः- अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे स्मर्तव्याः- सटीकस्य समवायाङ्गसूत्रस्य प्राचीनान् हस्तलिखितानादर्शानवलम्ब्य आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजी महाभागैः संशोधनं विहितमासीत् । तं मु.श्री पुण्यविजयजीम. संशोधितमादर्श मुख्यतया अवलम्ब्य अस्य ग्रन्थस्य संशोधनं सम्पादनं चास्माभिर्विहितम् । किञ्च, श्रीमहावीरजैनविद्यालयेन प्रारब्धाया जैनागमग्रन्थमालायाः प्रकाशने बीजभूताः प्रेरकाश्च आ.प्र.मु.श्रीपुण्यविजयजीमहाभागा एव । तैरेव च संशोधन-सम्पादनक्षेत्रेऽहं योजितः । अतः कृतज्ञभावेन तेषां चरणयोर्वन्दनं विदधामि ।
अनेकेभ्यो वर्षेभ्यः प्राक् आगमोद्धारकैराचार्यश्रीसागरानन्दसूरिभिः महान् ग्रन्थराशिः महता महता परिश्रमेण जैनसंघस्य पुरस्ताद् मुद्रयित्वा उपन्यस्तः । समग्रोऽपि जैनसंघः तैरुपकृतः । अतस्तेषामपि चरणयोः वन्दनं विदधामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org