SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ २८० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे [३] निरयगती णं भंते ! केवतियं कालं विरहिता उववाएणं पण्णत्ता? गोयमा! जहन्नेणं एवं समयं, उक्कोसेणं बारस मुहुत्ते, एवं तिरियगति मणुस्स[गति] देव[गति] । सिद्धिगती णं भंते ! केवइयं कालं विरहिया सिज्झणयाए पण्णत्ता ? गोयमा ! जहन्नेणं एवं समयं, उक्कोसेणं छम्मासे। 5 एवं सिद्धिवजा उव्वदृणा । [४] इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं ? एवं उववायदंडओ भाणियव्वो उव्वट्टणादंडओ य । [टी०] अनन्तरमाहारप्ररूपणा कृता, आहारश्चायुर्बन्धवतामेव भवतीत्यायुर्बन्धप्ररूपणायाह- कइविहेत्यादि, तत्रायुषो बन्धः निषेक आयुर्बन्धः, निषेकश्च प्रतिसमयं 10 बहुहीनहीनतरस्य दलिकस्यानुभवनार्थं रचना, निधत्तमपीह निषेक उच्यते, अत एवाह जाइनामनिधत्ताउए, जातिनाम्ना सह निधत्तं निषिक्तमनुभवनार्थं बह्वल्पाल्पतरक्रमेण व्यवस्थापितमायुर्जातिनामनिधत्तायुः, अथ किमर्थं जात्यादिनामकर्मणाऽऽयुविशेष्यते ?, उच्यते- आयुष्कस्य प्राधान्योपदर्शनार्थम्, यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्माद् 15 व्याख्याप्रज्ञप्त्यामुक्तम्- नेरइए णं भंते ! नेरइएसु उववजइ, अनेरइए नेरइएसु उववजइ ?, गोयमा ! नेरइए नेरइएसु उववजइ, नो अनेरइए नेरइएसु उववजइ [भगवती० ४/९/१७३], एतदुक्तं भवति - नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति । तथा गतिनामनिधत्ताउए त्ति, गति रकगत्यादिः, तल्लक्षणं नामकर्म तेन सह 20 निधत्तं निषिक्तमायुर्गतिनामनिधत्तायुः । तथा ठिइनामनिधत्ताउए त्ति, स्थितियत् स्थातव्यं तेन भावेनायुर्दलिकस्य सैव नाम परिणामो धर्म इत्यर्थः स्थितिनाम, गति-जात्यादिकर्मणां वा प्रकृत्यादिभेदेन चतुर्विधानां यः स्थितिरूपो भेदस्तत् स्थितिनाम, तेन सह निधत्तमायुः स्थितिनामनिधत्तायुरिति। तथा पएसनामनिधत्ताउए त्ति, प्रदेशानां प्रमितपरिमाणानामायु:कर्मदलिकानां नाम १. अत्र प्रज्ञापनासूत्रे षष्ठं व्युत्क्रान्तिपदं द्रष्टव्यम् ।। २. विशिष्यिते जे२ हे१, हेसं२ ।। ३. नाम: जे२ खं० हे२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy