________________
[सू० १५४] आयुर्बन्धादिवर्णनम् ।
२८१ परिणामो यः तथाऽऽत्मप्रदेशेषु सम्बन्धनं स प्रदेशनाम, जाति-गत्यवगाहनाकर्मणां वा यत् प्रदेशरूपं नामकर्म तत् प्रदेशनाम, तेन सह निधत्तमायुः प्रदेशनामनिधत्तायुरिति। तथा अणुभागनामनिधत्ताउए त्ति, अनुभाग: आयुष्कर्मद्रव्याणां तीव्रादिभेदो रसः स एव तस्य वा नामः परिणामोऽनुभागनाम:, अथवा गत्यादीनां नामकर्मणामनुभागबन्धरूपो भेदोऽनुभागनाम, तेन सह निधत्तमायुरनुभागनामनिधत्तायुरिति । 5 ___ तथा ओगाहणानामनिधत्ताउए त्ति, अवगाहते जीवो यस्यां साऽवगाहना शरीरमौदारिकादि पञ्चविधम्, तत्कारणं कर्माप्यवगाहना, तद्रूपं नामकाऽवगाहनानाम, तेन सह निधत्तमायुरवगाहनानामनिधत्तायुरिति । नेरइयाणमित्यादि स्पष्टम् । ___ अनन्तरमायुर्बन्ध उक्तोऽधुना बद्धायुषां नारकादिगतिषूपपातो भवतीति तद्विरहकालप्ररूपणायाह- निरयगई णमित्यादि कण्ठ्यम्, नवरं यद्यपि रत्नप्रभादिषु 10 चतुर्विंशतिर्मुहूर्तादिविरहकालः, यथोक्तम्
चउवीसई मुहत्ता सत्त अहोरत्त तह य पण्णरसा । मासो य दो य चउरो छम्मासा विरहकालो उ ॥ [बृहत्सं० २८१] त्ति ।
तथापि सामान्यगत्यपेक्षया द्वादश मुहर्ता उक्ताः, तथा एवंकरणाद् यत्तिर्यङ्मनुष्यगत्योः सामान्येन द्वादश मुहर्ता उक्ताः तद् गर्भव्युत्क्रान्तिकापेक्षया, देवगतौ तु 15 सामान्यत एव। सिद्धिवज्जा उव्वदृण त्ति नारकादिगतिषु द्वादशमुहूर्तो विरहकाल १. "साई खं० जे१ । “चउवीसयं मुहुत्ता, सत्त अहोरत्त तह य पन्नरस । मासो अ दो अ चउरो छम्मासा विरहकालो उ ।।२८१॥ उक्कोसो रयणाइसु, सव्वासु जहन्नओ भवे समओ । एमेव य उव्वट्टण, संखा पुण सुरवरूतुल्ला ॥२८२॥ व्या०- इह नरकेषु नारकाः सततमेव प्राय उत्पद्यन्ते । केवलं कदाचिदन्तरं भवति । तच्चान्तरं जघन्यतः सर्वासु समस्तासु पृथिवीषु प्रत्येकं भवत्येकः समयः | उत्कर्षतो रत्नप्रभायां पृथिव्यां चतुर्विंशतिमूहुर्ता अन्तरम् । शर्कराप्रभायां सप्ताहोरात्राः । वालुकाप्रभायां पञ्चदश । पङ्कप्रभायां मासः । धूमप्रभायां द्वौ मासौ । तमःप्रभायां चत्वारो मासाः । तमस्तमःप्रभायां षण्मासाः । एमेव य उव्वट्टण त्ति यथोपपातविरहकाल उक्त एवमेवोद्वर्तनाविरहकालोऽपि जघन्यत उत्कर्षतश्च वाच्यः । ततः समस्तासु पृथिवीषु प्रत्येकमुद्वर्तनाविरहकालो जघन्यत एकः समयः । उत्कर्षतो रत्नप्रभायां चतुर्विंशतिमुहूर्ताः । शर्कराप्रभायां सप्ताहोरात्राः । वालुकाप्रभायां पक्षः । पङ्कप्रभायां मासः । धूमप्रभायां द्वौ मासौ । तमःप्रभायां चत्वारो मासाः । तमस्तमःप्रभायां षण्मासाः । “संखा पुण सुरवरूतुल्ल त्ति' उपपात उद्वर्तनायां च सङ्ख्या पुनरेकस्मिन् समये सुरवरतुल्या सुराणामिव द्रष्टव्या । तद्यथा- एकस्मिन् समये नारका उत्पद्यन्ते जघन्यपद एको द्वौ वा, उत्कर्षतः सङ्ख्याता असङ्ख्याता वा, एवमेव चोद्वर्तन्तेऽपीति ॥२८१८२॥” इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org