________________
२७९
[सू० १५४]
आयुर्बन्धादिवर्णनम् । चात्राहारविचारप्रधानतया आहारपदमुक्तमिति, तत् पुनरेवमर्थतस्तत्र आहाराभोगणाइ यत्ति एतस्य विवरणम् - नारकाणां किमाभोगनिर्वर्तित आहारोऽनाभोगनिर्वर्त्तितो वा ?, उभयथापीति निर्वचनम्, एवं सर्वेषाम्, नवरमेकेन्द्रियाणामनाभोगनिर्वर्तित एवेति । तथा पोग्गला नेव जाणंति त्ति, अस्यार्थः- नारका यान् पुद्गलान् आहारयन्ति तानवधिनापि न जानन्ति अविषयत्वात्तदवधेस्तेषाम्, न पश्यन्ति चक्षुषाऽपि लोमाहारत्वात् तेषाम्, 5 एवमसुरादयस्त्रीन्द्रियान्ताः, केवलम् एकेन्द्रिया अनाभोगाहारत्वाद् द्वित्रीन्दियाश्च मत्यज्ञानित्वान्न जानन्ति चक्षुरिन्द्रियाभावाच्च न पश्यन्तीति, चतुरिन्द्रियास्तु चक्षुःसद्भावेऽपि मत्यज्ञानित्वात् प्रक्षेपाहारं न जानन्ति, चक्षुषा तु पश्यन्ति, तथा त एव लोमाहारमाश्रित्य न जानन्ति न पश्यन्तीति व्यपदिश्यते, चक्षुषोऽविषयत्वात्तस्य, पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च केचिजानन्ति पश्यन्ति चावधिज्ञानादियुक्ताः लोमाहारं प्रक्षेपाहारं 10 च, तथाऽन्ये जानन्ति न पश्यन्ति लोमाहारम्, जानन्त्यवधिना न पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति पश्यन्ति, तत्र न जानन्ति प्रक्षेपाहारं मत्यज्ञानित्वात् पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति न पश्यन्ति लोमाहारं निरतिशयत्वादिति, व्यन्तर-ज्योतिष्का नारकवत्, वैमानिकास्तु ये सम्यग्दृष्टयस्ते जानन्ति विशिष्टावधित्वात् पश्यन्ति च चक्षुषोऽपि विशिष्टत्वात्, मिथ्यादृष्टयस्तु न जानन्ति न पश्यन्ति, प्रत्यक्ष- 15 परोक्षज्ञानयोस्तेषामस्पष्टत्वादिति । तथा अज्झवसाणा य त्ति दारम्, नारकादीनां प्रशस्ताप्रशस्तान्यसंख्येयान्यध्यवसानानीति । तथा संमत्ते त्ति दारम्, तत्र नारकाः किं सम्यक्त्वाभिगमिनो मिथ्यात्वाभिगमिनः सम्यक्त्वमिथ्यात्वाभिगमिनश्चेति? त्रिविधा अपि, एवं सर्वेऽपि, नवरमेकेन्द्रिय-विकलेन्द्रिया मिथ्यात्वाभिगमिन एवेति ।
[सू० १५४] [१] कतिविहे णं भंते ! आउगबंधे पण्णत्ते ? गोयमा ! 20 छविहे आउगबंधे पण्णत्ते, तंजहा- जातिनामनिधत्ताउए, एवं गतिनाम० ठितिनाम० पदेसनाम० अणुभाग० ओगाहणानाम० ।
[२] नेरइयाणं भंते ! कतिविहे आउगबंधे पन्नत्ते ?, गोयमा ! छव्विहे पन्नत्ते, तंजहा- जातिनाम० जाव ओगाहणानाम० । एवं जाव वेमाणिय त्ति। १. “आहाराभोयणाइ य इति आहाराभोगना, आदिशब्दादाहारानाभोगना च वक्तव्या ।" इति प्रज्ञापनासूत्रस्य
चतुस्त्रिंशत्तमे पदे मलयगिरिसूरिविरचितायां वृत्तौ ।। २. एव च लोमाखं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org