SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ २७८ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे जीवा यथा साधवः शिरोलोच - ब्रह्मचर्यादिकाम्, द्वितीया तु स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य वेदनीयस्यानुभवः, तत्र पञ्चेन्द्रियतिर्यङ् - मनुष्या द्विविधामपि शेषास्त्वौपक्रमिकीमेव वेदयन्तीति । तथा णीयाए चेव अणियाए त्ति, द्विविधा वेदना, तत्र निदया आभोगतः अनिदया त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंज्ञिनस्त्वनिदयेति, 5 एतद्द्वारविवरणाय नेरइया णमित्यादि, इहावसरे प्रज्ञापनायाः पञ्चत्रिंशत्तमं वेदनाख्यं पदमध्येयमिति । अनन्तरं वेदना प्ररूपिता, सा च लेश्यावत एव भवतीति लेश्याप्ररूपणायाह- क णं भंते इत्यादि, इह स्थाने प्रज्ञापनायाः सप्तदशं षडुद्देशकं लेश्याभिधानं पदमध्येतव्यम्, तच्चास्माभिरतिबहुत्वादर्थतोऽपि न लिखितमिति तत एवावधारणीयमिति । अनन्तरं लेश्या उक्ताः, सलेश्या एव चाहारयन्तीत्याहारप्ररूपणाय अनंतरा येत्यादिद्वारश्लोकमाह । तत्र अणंतरा य आहारे त्ति अनन्तराश्च अव्यवधानाश्चाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याऽऽभोगना, अपिचेति वचनादनाभोगना च वाच्या । तथा पुद्गलान्न जानन्त्येव, एवकारान्न पश्यन्तीति चतुर्भङ्गी सूचिता । तथा अध्यवसानानि सम्यक्त्वं च वाच्यमिति । तत्राद्यद्वारार्थमाह– नेरइत्यादि, अनंतराहार त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः । ततो निव्वत्तणया इति ततः शरीरनिर्वृत्तिः । ततो परियादियणय त्ति ततः पर्यापानमङ्गप्रत्यङ्गैः समन्तात् पानमित्यर्थः । ततो परिणाम आपीतस्योपात्तस्य परिणतिरिन्द्रियादिविभागेन । ततो परियारणय त्ति ततः शब्दादिविषयोपभोग इत्यर्थः । ततो पच्छा विउव्वणय त्ति ततः पश्चाद्विक्रिया नानारूपा 20 इत्यर्थः । हंत त्ति हन्त गौतम !, एवमेतदिति भावः, एवं सर्वेषां पञ्चेन्द्रियाणां वक्तव्यम्, नवरं देवानां पूर्वं विकुर्वणा पश्चात् परिचारणा शेषाणां तु पूर्वं परिचारणा पश्चाद्विकुर्वणा, एकेन्द्रियादीनामप्येवमेव प्रश्नः, निर्वचने तु यत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति । 10 15 एवमाहारपयं भाणियव्वं ति यथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरं शेषद्वाराणि 25 च भणद्भिः प्रज्ञापनायाश्चतुस्त्रिंशत्तमं परिचारणापदाख्यं पदमिह भणितव्यमिति, इदं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy