________________
२७७
[सू० १५३]
अवधि-वेदनादिवर्णनम् । [आव० नि०६६] इत्यादि । तथा बाहिरे त्ति केऽवधिक्षेत्रस्य बाह्या भवन्तीति वाच्यम्, तत्र शेषा जीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति । तथा देसोहि त्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशी अवधिर्देशावधिः स केषां भवतीति वाच्यम्, तद्विपरीतस्तु सर्वावधिः, तत्र मनुष्याणाम् उभयमन्येषां देशावधिरेव, यतः सर्वावधिः केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति । तथाऽवधेर्वृद्धिानिश्च वाच्या, यो येषां 5 भवति, तत्र तिर्यङ्-मनुष्याणां वर्द्धमानो हीयमानश्च भवति, शेषाणामवस्थित एव, तत्र वर्द्धमानो योऽङ्गुलासंख्येयभागादि दृष्ट्वा बहु बहुतरं पश्यति, विपरीतस्तु हीयमान इति। तथा प्रतिपाती चाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतो लोकमात्रः प्रतिपाती, ततः परमप्रतिपाती, तत्र भवप्रत्ययस्तं भवं यावन्न प्रतिपतति, क्षायोपशमिकस्तूभयथेति। एतदेव दर्शयति- कइविहेत्यादि, अत्रावसरे प्रज्ञापनायास्त्रय- 10 स्त्रिंशत्तमं पदमन्यूनमध्येयमिति । |
अनन्तरमुपयोगविशेषः क्षायोपशमिको जीवपर्यायः उक्तोऽधुना स एवौदयिको वेदनालक्षणोऽभिधीयते- सीया इत्यादि द्वारगाथा, तत्र सीया य त्ति चशब्दोऽनुक्तसमुच्चये, तेन त्रिविधा वेदना - शीता उष्णा शीतोष्णा चेति, तत्र शीतामुष्णां च वेदयन्ति नारकाः, शेषास्त्रिविधामपि । दव्व त्ति उपलक्षणत्वाच्चतुर्विधा 15 वेदना द्रव्यादिभेदेन, तत्र पुद्गलद्रव्यसम्बन्धात् द्रव्यवेदना, नारकाद्युपपातक्षेत्रसम्बन्धात् क्षेत्रवेदना, नारकाद्यायुःकालसम्बन्धात् कालवेदना, वेदनीयकर्मोदयाद् भाववेदना, तत्र नारकादयो वैमानिकान्ताश्चतुर्विधामपि वेदनां वेदयन्तीति । तथा सारीर त्ति त्रिधावेदना शारीरी मानसी शारीरमानसी च, तत्र संज्ञिपञ्चेन्द्रियाः सर्वे त्रिविधामपि, इतरे तु शारीरीमेवेति। तथा साय त्ति त्रिधा वेदना - साता असाता सातासाता चेति, तत्र 20 सर्वे जीवाः त्रिविधामपि वेदयन्तीति । तह वेयणा भवे दुक्ख त्ति, त्रिविधा वेदनासुखा दुःखा सुखदुःखा चेति, तत्र सर्वेऽपि त्रिविधामपि वेदयन्ति, नवरं सातासातयोः सुखदुःखयोश्चायं विशेष:- सातासाते क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवलक्षणे, सुखदुःखे तु परेण उदीर्यमाणवेदनीयकर्मानुभवलक्षणे। तथा अब्भुवगमुवक्किमिय त्ति, द्विधा वेदना- आभ्युपगमिकी औपक्रमिकी चेति, तत्राद्या यामभ्युपगमतो वेदयन्ति 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org