SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ २७६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे __ कति णं भंते ! लेसातो पण्णत्तातो ? गोयमा ! छल्लेसातो पण्णत्तातो, तंजहा- किण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा । एवं लेसापदं भाणियव्वं । अणंतरा य आहारे आहाराभोयणा विय । 5 पोग्गला नेव जाणंति अज्झवसाणा य सम्मत्ते ॥७३॥ नेरइया णं भंते ! अणंतराहारा ततो निव्वत्तणया ततो परियातियणता ततो परिणामणता ततो परियारणया ततो पच्छा विकुव्वणया ? हंता गोयमा! एवं आहारपदं भाणियव्वं । [टी०] अनन्तरं शरीरिणामवगाहनाधर्म्म उक्तोऽधुना त्ववधिधर्मप्रतिपादनायाह-भेदे 10 इत्यादि द्वारगाथा, तत्र भेदोऽवधेर्वक्तव्यः, यथा द्विविधोऽवधिः - भवप्रत्ययः क्षायोपशमिकश्च, तत्र भवप्रत्ययो देवनारकाणां क्षायोपशमिको मनुष्यतिरश्चामिति, तथा विषयो गोचरोऽवधेर्वाच्यः, स च चतुर्द्धा - द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो जघन्येन तेजो-भाषयोरग्रहणप्रायोग्यानि द्रव्याणि जानाति, उत्कर्षतस्तु सर्वमेकाणुकाद्यनन्ताणुकान्तं रूपिद्रव्यजातं जानाति, क्षेत्रं जघन्यतोऽङ्गुलासंख्येयभागं 15 जानाति उत्कर्षतोऽसंख्येयान्यलोके लोकमात्राणि खण्डानि जानाति, कालं जघन्यत आवलिकाया असंख्येयभागमतीतमनागतं च जानाति, उत्कर्षतः संख्यातीता उत्सर्पिण्यवसर्पिणीर्जानाति, भावान् जघन्यतः प्रतिद्रव्यं चतुरो वर्णादीन् उत्कृर्षतः प्रतिद्रव्यमसंख्येयान् सर्वद्रव्यापेक्षया त्वनन्तानिति । तथा संस्थानमवधेर्वाच्यम्, यथा नारकाणां तप्राकारोऽवधिः, पल्याकारो भवनपतीनाम्, पटहाकारो व्यन्तराणाम्, 20 झल्लाकृतियॊतिष्काणाम्, मृदङ्गाकारः कल्पोपपन्नानाम्, पुष्पावलीरचितशिखर चङ्गेर्याकारो ग्रैवेयकाणाम्, कन्याचोलकसंस्थानोऽनुत्तरसुराणां लोकनाड्याकृतिरित्यर्थः, तिर्यङ्-मनुष्याणां तु नानासंस्थान इति । तथा अब्भंतर त्ति के अवधिप्रकाशितक्षेत्रस्याभ्यन्तरे वर्तन्ते इति वाच्यम्, तत्र नेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुंति १. प्रज्ञापनासूत्रस्य सप्तदशं लेश्यापदम् ॥ २. अत्र प्रज्ञापनासूत्रस्य अष्टाविंशतितमम् आहारपदं न ग्राह्यम्, किन्तु आहारपदशब्देन चतुस्त्रिंशत्तमं परिचारणापदं ग्राह्यमिति टीकायां निर्दिष्टमभयदेवसूरिपादैः ॥ ३. च नास्ति खं० जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy