SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ [सू० १५३] अवधि-वेदनादिवर्णनम् । २७५ न परतः, मनुष्यस्य लोकान्तं यावत्, भवनपति-व्यन्तर-ज्योतिष्क-सौधर्मेशानदेवानां जघन्यतोऽङ्गुलासंख्येयभागः स्वस्थान एव पृथिव्यादितयोत्पादात्, उत्कर्षतस्तु अधस्तृतीयपृथिवीं यावत् तिर्यक् स्वयम्भूरमणबहिर्वेदिकान्तम् ऊर्ध्वमीषत्प्राग्भारां यावत्, यत एते शुभपर्याप्तबादरेष्वेव पृथिव्यादिषूत्पद्यन्ते अतो न परतोऽपीति, सनत्कुमारादिसहस्रारान्तदेवानां तु जघन्यतोऽगुलासंख्येयभागः, कथम् ?, पण्डकवनादि- 5 पुष्करिणीमजनार्थमवतारे मृतस्य तत्रैव मत्स्यतयोत्पद्यमानत्वात्, पूर्वसम्बन्धिनी वा मनुष्योपभुक्तस्त्रियं परिष्वज्य मृतस्य तद्गर्भे समुत्पादादिति, उत्कर्षतस्तु अधो यावन्महापातालकलशानां द्वितीयस्त्रिभागः, तत्र हि जलसद्भावान्मत्स्येषूत्पद्यमानत्वात्, तिर्यक् स्वयम्भूरमणसमुद्रं यावत्, ऊर्ध्वमच्युतं यावत्, तत्र हि सङ्गतिकदेवनिश्रया गतस्य मृत्वेहोत्पद्यमानत्वादिति, आनतादीनामच्युतान्तानां तु जघन्यतोऽङ्गुला- 10 संख्येयभागः, कथम् ?, इहागतस्य मरणकालविपर्यस्तमतेर्मनुष्योपभुक्तस्त्रियमभिष्वज्य मृतस्य तत्रैवोत्पत्तेरिति, उत्कर्षतस्त्वधो यावदधोलोकग्रामान्, तिर्यग् मनुष्यक्षेत्रे, ऊर्ध्वमच्युतविमानानि यावत् मनुष्येष्वेवोत्पद्यन्ते एत इति भावना तथैव कार्या, ग्रैवेयकानुत्तरोपपातिकदेवानां जघन्यतो विद्याधरश्रेणीं यावत्, उत्कर्षतोऽधो यावदधोलोकग्रामान्, तिर्यग् मनुष्यक्षेत्रम्, ऊर्ध्वं तद्विमानान्येवेति, एवं कार्मणस्याप्यवगाहना 15 दृश्या समानत्वादेतयोरिति । उक्तार्थमेव सूर्तीशमाह- गेवेजगस्स णमित्यादि । [सू० १५३] भेदे विसय संठाणे अभंतर बाहिरे य देसोधी । ओहिस्स वड्डि हाणी पडिवाती चेव अपडिवाती ॥७॥ कतिविहे णं भंते ! ओही पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते- भवपच्चइए य खओवसमिए य । एवं सव्वं ओहिपदं भाणियव्वं । 20 सीता य दव्व सारीर सात तह वेयणा भवे दुक्खा । अब्भुवगमुवक्कमिया णिताई चेव अणिदातिं ॥७२॥ नेरइया णं भंते ! किं सीतवेदणं वेयंति, उसिणवेयणं वेयंति, सीतोसिणवेयणं वेयंति ? गोयमा ! नेरइया० एवं चेव वेयणापदं भाणियव्वं । . १. प्रज्ञापनासूत्रस्य त्रयस्त्रिंशत्तमम् अवधिपदम् ॥ २. प्रज्ञापनासूत्रस्य पञ्चत्रिंशत्तमं वेदनापदम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy