________________
२७४ . आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे संजयसम्मदिट्ठिपजत्तयसंखेजवासाउयकम्मभूमगगब्भवक्कं तियमणुस्साहारगसरीरे अणिडिपत्तपमत्तसंजयसम्मदिट्ठिपज्जत्तयसंखेजवासाउयकम्मभूमगगब्भवक्वंतियमणुस्साहारगसरीरे ?, गोयमा ! द्वितीयस्य निषेधः प्रथमस्य चानुज्ञा वाच्या, एतदेवाह- वयणा वि भाणियव्व त्ति सूचितवचनान्यप्युक्तन्यायेन 5 सर्वाणि भणनीयानि, विभागेन पूर्णान्युच्चारणीयानीत्यर्थः,
आहार त्ति ‘आहारगसरीरस्स केमहालिया सरीरोगाहणा पण्णत्ता ?, गोयमा !' इत्येतत् सूचितम्, जहण्णेणं देसूणा रयणीति, कथम् ? उच्यते, तथाविधप्रयत्नविशेषतस्तथाऽऽरम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावात्, न हीहौदारिकादेरिवा
गुलासंख्येयभागमात्रता प्रारम्भकाले इति भावः । 10 तेयासरीरे णं भंते इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्ता
तैजसशरीरवक्तव्यता इह वाच्या, सा चेयमर्थतः- एगिदियतेयगसरीरे णं भंते ! कतिविहे ?, गोयमा ! पंचविहे पण्णत्ते, तंजहा- पुढवि जाव वणप्फइकाइयएगिदियतेयगसरीरे [प्रज्ञापना सू० १५३६-१५३७], एवं जीवराशिप्ररूपणाऽनुसारेण सूत्रं भावनीयम्,
यावत् सठवट्ठसिद्धगअणुत्तरोववाइयकप्पातीतवेमाणियदेवपंचेंदियतेयगसरीरे णं भंते ! 15 किंसंठिए ?, नाणासंठिए [प्रज्ञापना सू० १५४४[३]], यस्य पृथिव्यादिजीवस्य यदौदारिकादिशरीरसंस्थानं तदेव तैजसस्य कार्मणस्य च ।
तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना ?, शरीरमात्रा विष्कम्भ-बाहल्याभ्यामायमतस्तु जघन्येनाङ्गुलस्यासंख्येयभाग उत्कर्षत ऊर्ध्वमधश्च लोकान्ताल्लोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येति भावः, 20 एवं सर्वेषामेवैकेन्द्रियाणाम्, द्वीन्द्रियादीनां तु आयामत उत्कर्षेण तिर्यग्लोकाल्लोकान्तं यावत् प्रायस्तिर्यग्लोके द्वीन्द्रियादितिरश्चां भावात्, नारकस्य जघन्यतो योजनसहस्रम्, कथम् ?, नरकात् पातालकलशस्य सहस्रमानं कुड्यं भित्त्वा तत्र मत्स्यतयोत्पद्यमानस्य, उत्कर्षेण तु अधः सप्तमी यावत् सप्तमपृथिवीनारकं समुद्रादिमत्स्येषूत्पद्यमानं प्रतीत्य, तिर्यक् स्वयम्भूरमणं यावत् ऊर्ध्वं पण्डकवनपुष्करिणीं यावत्, यतस्तयोर्नारक उत्पद्यते, १. "म्मद्दिट्टि खं० जे१ हे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org