________________
[सू० १५२] औदारिकादिशरीरवर्णनम् ।
२७३ पताकासंस्थितम्, नारकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थितम्, पञ्चेन्द्रियतिर्यङ्-मनुष्याणां नानासंस्थितम्, देवानां भवधारणीयं समचतुरस्रसंस्थानसंस्थितमुत्तरवैक्रियं नानासंस्थितम्, केवलं कल्पातीतानां भवधारणीयमेव ।
तथा वैक्रियशरीरावगाहना भदन्त ! किंमहती ?, गौतम ! जघन्यतोऽगुलासंख्येयभागमुत्कर्षतः सातिरेकं योजनलक्षम्, वायोरुभयथा अङ्गुलासंख्येयभागम्, एवं 5 नारकस्य जघन्येन, भवधारणीया तु उत्कर्षतः पञ्च धनुःशतानि, एषा च सप्तम्याम्, षष्ठ्यादिषु त्वियमेव अर्द्धार्द्धहीनेति, उत्तरवैक्रिया तु जघन्यतः सर्वेषामप्यनुलसंख्येयभागमुत्कर्षतस्तु नारकस्य भवधारणीयद्विगुणेति, पञ्चेन्द्रियतिरश्चां योजनशतपृथक्त्वमुत्कर्षतः, मनुष्याणां तूत्कर्षतः सातिरेकं योजनानां लक्षम्, देवानां तु लक्षमेवोत्तरवैक्रियम्, भवधारणीया तु भवनपति-व्यन्तर-ज्योतिष्क-सौधर्मेशानानां 10 सप्त हस्ताः, सनत्कुमार-माहेन्द्रयोः षट्, ब्रह्म-लान्तकयोः पञ्च, महाशुक्रसहस्रारयोश्चत्वार आनतादिषु त्रयो ग्रैवेयकेषु द्वावनुत्तरेष्वेक इति, अनन्तरोक्तं सूत्रत एवाह- एवं जाव सणंकुमारेत्यादि, एवमिति दुविहे पण्णत्ते एगिदिएत्यादिना पूर्वदर्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यम्, कियदूरमित्याह-यावत् सनत्कुमारे आरब्धं भवधारणीयवैक्रियशरीरपरिहाणमिति गम्यं ततोऽपि यावदनुत्तराणि 15 अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति तेषां रत्नी रलिः परिहीयत इति, एतदर्थं सूत्रं तावदिति, पुस्तकान्तरे त्विदं वाक्यमन्यथापि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण कार्येति ।
आहारएत्यादि सुगमम्, नवरम् एवमिति यथा पूर्वम् आलापकः परिपूर्ण उच्चारित एवमुत्तरत्रापि, तथाहि- जइ मणुस्स त्ति - जइ मणुस्साहारगसरीरे किं 20 गब्भवक्कंतियमणुस्साहारगसरीरे संमुच्छिममणुस्साहारगसरीरे ?, गोयमा ! गब्भवक्कं तियमणुस्साहारगसरीरे नो संमुच्छिममणुस्साहारगसरीरे, जइ गब्भवक्कंतिय० इत्यादि सर्वमूह्यं यावत् जइ पमत्तसंजयसम्मदिट्ठिपजत्तयसंखेजवासाउयकम्मभूमगगब्भवक्कंतियमणुस्साहारगसरीरे किं इडिपत्तपमत्त१. तिर्यग्मनु जे२ ॥ २. सूत्र एवाह जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org