________________
२७२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे क्रमेण द्वादश योजनानि त्रीणि गव्यूतानि चत्वारि चेति, पञ्चेन्द्रियतिरश्चां जलचराणां पर्याप्तानां गर्भजानां संमूर्च्छनजानां चोत्कर्षतो योजनसहस्रम्, एवं स्थलचराणां चतुष्पदानां संमूर्च्छनजानां पर्याप्तानां गव्यूतपृथक्त्वम्, गर्भव्युत्क्रान्तिकानां तेषां षड् गव्यूतानि, उर:परिसर्पाणां गर्भव्युत्क्रान्तिकानां योजनसहस्रम्, एषामेव सम्मूर्च्छनजानां 5 योजनपृथक्त्वम्, भुजपरिसर्पाणां गर्भजानां गव्यूतपृथक्त्वम्, सम्मूर्च्छनजानां धनुःपृथक्त्वम्, खचराणां गर्भजानां सम्मूर्छनजानां च धनुःपृथक्त्वमेव, तथा मनुष्याणां गर्भव्युत्क्रान्तिकानां गव्यूतत्रयम् सम्मूर्च्छनजानामगुलासंख्येयभागः, एष एव सर्वत्र जघन्यपदे अपर्याप्तपदे चेति ।
तथा कइविहे णमित्यादि स्पष्टम्, नवरं विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां 10 भवं वैक्रियम्, विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकमिति वा, तत्रैकेन्द्रियवैक्रियशरीरं वायुकायस्य पञ्चेन्द्रियवैक्रियशरीरं नारकादीनाम् । एवं जावेत्यादेरतिदेशादिदं द्रष्टव्यम्, यदुत जइ एगिदियवेउब्वियसरीरए किं वाउकाइयएगिंदियवेउब्वियसरीरए अवाउकाइयएगिदियवेउव्वियसरीरए ?, गोयमा! वाउकाइयएगिदियसरीरए
नो अवाउकाइय [प्रज्ञापना सू०१५१५] इत्यादिनाऽभिलापेनायमर्थो दृश्यः, यदि वायोः किं 15 सूक्ष्मस्य बादरस्य वा ?, बादरस्यैव, यदि बादरस्य किं पर्याप्तकस्या-ऽपर्याप्तकस्य
वा ?, पर्याप्तकस्यैव, यदि पञ्चेन्द्रियस्य किं नारकस्य पञ्चेन्द्रियतिरश्चो मनुजस्य देवस्य वा ?, गौतम ! सर्वेषाम्, तत्र नारकस्य सप्तविधस्य पर्याप्तकस्येतरस्य च, यदि तिरश्चः किं सम्मूर्छिमस्य इतरस्य वा ?, इतरस्य, तस्यापि संख्यातवर्षायुष एव पर्याप्तकस्य,
तस्य च जलचरादिभेदेन त्रिविधस्यापि । तथा मनुष्यस्य गर्भजस्यैव, तस्यापि 20 कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुष एव पर्याप्तकस्यैव च । तथा देवस्य
भवनवास्यादेः, तत्रासुरादेर्दशविधस्य पर्याप्तकस्येतरस्य च, एवं व्यन्तरस्याष्टविधस्य ज्योतिष्कस्य पञ्चविधस्य, तथा यदि वैमानिकस्य किं कल्पोपपन्नस्य कल्पातीतस्य ? उभयस्यापि पर्याप्तस्यापर्याप्तस्य चेति ।
तथा वैक्रियं भदन्त ! किंसंस्थितम् ?, उच्यते, नानासंस्थितम्, तत्र वायोः १. तस्यापिजल' हे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org