SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ २७१ [सू० १५२] औदारिकादिशरीरवर्णनम् । सरीरोगाहणा पण्णत्ता ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं, आयामेणं जहन्नेणं अहे जाव विजाहरसेढीओ, उक्कोसेणं अहे जाव अहोलोइया गामा, उढे जाव सयाई विमाणाई, तिरियं जाव मणुस्सखेत्तं, एवं जाव अणुत्तरोववाइया वि । एवं कम्मयसरीरं पि भाणियव्वं । [टी०] अनन्तरं नारकादिजीवानां स्थितिरुक्ता, इदानीं तच्छरीराणामवगाहना- 5 प्रतिपादनायाह- कइ णं भंते इत्यादि कण्ठ्यम्, नवरमेकेन्द्रियौदारिकशरीरमित्यादौ यावत्करणाद् द्वित्रिचतुष्पञ्चेन्द्रियौदारिकशरीराणि पृथिव्यायेकेन्द्रिय-जलचरादिपञ्चेन्द्रियभेदेन प्रागुपदर्शितजीवराशिक्र मेण वाच्यानि, कियदूरमित्याहगब्भवक्कंतियेत्यादि । ओरालियसरीरस्सेत्यादि, तत्रोदारं प्रधानं तीर्थकरादिशरीराणि प्रतीत्य अथवोरोलं विशालं समधिकयोजनसहस्रप्रमाणत्वात् वनस्पत्यादि प्रतीत्य अथवा 10 उरलं स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्डवदिति, अथवा मांसास्थिस्नायुबद्धं यच्छरीरं तत् समयपरिभाषया ओरालमिति, तच्च तच्छरीरं चेति प्राकृतत्वादौ(दो)रोलियशरीरम्, तस्य, अवगाहन्ते यस्यां साऽवगाहना आधारभूतं क्षेत्रम्, शरीराणामवगाहना शरीरावगाहना, अथवौदारिकशरीरस्य जीवस्य औदारिकशरीररूपावगाहना शरीरावगाहना सा भदन्त ! केमहालिया किम्महती प्रज्ञप्ता ?, तत्र 15 जघन्येनामुलासंख्येयभागं यावत् पृथिव्याद्यपेक्षया, उत्कर्षेण सातिरेकं योजनसहस्रमिति बादरवनस्पत्यपेक्षयेति। __ एवं जाव मणुस्से त्ति, इह एवं यावत्करणादवगाहनासंस्थानाभिधानप्रज्ञापनैकविंशतितमपदाभिहितग्रन्थोऽर्थतोऽयमनुसरणीयः, तथाहि- एकेन्द्रियौदारिकस्य पृच्छा निर्वचनं च तदेव, तथा पृथिव्यादीनां चतुर्णा बादर-सूक्ष्मपर्याप्ता-ऽपर्याप्तानां जघन्यत 20 उत्कृष्टतश्चाङ्गुलासंख्येयभागः, वनस्पतीनां बादरपर्याप्तानामुत्कर्षतः साधिकं योजनसहस्रम्, शेषाणां त्वगुलासंख्येयभाग एव, द्वि-त्रि-चतुरिन्द्रियाणां पर्याप्तानां १. 'गाहना आह खं० ॥ २. 'वोरालं विस्तरालं समधि हे२ ॥ ३. ओरालं खं० ॥ ४. भिंडवदिति खं० । भेंडवदित्यादि हे२ ॥ ५. लियं शरीरं खं० ॥ ६. औदारिकशरीरावगाहना खं० । ख० अनुसारेण ओरालियसरीरोगाहणा इति मूलपाठ: संभाव्यते॥ ७. मणुस्सेत्यादि इह खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy