SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ [सू० १५१] असुरकुमारावासादिवर्णनम् । आदित्यस्तद्वत् प्रभान्ति शोभन्ते यानि तान्यर्चिमालिप्रभाणि, तथा भासानां प्रकाशानां राशिः भासराशिः आदित्यस्तस्य वर्णस्तद्वदाभा छाया वर्णो येषां केषांचित्तानि भासराशिवर्णाभानि, तथा अरय त्ति अरजांसि स्वाभाविकरजोरहितत्वात्, नीरयत्ति नीरजांसि आगन्तुकरजोविरहात्, निम्मल त्ति निर्मलानि कक्खटमलाभावात्, वितिमिराणि आहार्यान्धकाररहितत्वात्, विशुद्धानि स्वाभाविकतमोविरहात् 5 सकलदोषविगमाद्वा, सर्वरत्नमयानि न दार्वादिदलमयानीत्यर्थः, अच्छान्याकाशस्फटिकवत्, श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात्, घृष्टानीव घृष्टानि खरशानया पाषाणप्रतिमेव, मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमेवेति, निष्पङ्कानि कलङ्कविकलत्वात् कर्दमविशेषरहितत्वाच्च, निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेत्यर्थः छाया दीप्तिर्येषां तानि निष्ककटच्छायानि, 10 प्रभाणि प्रभाववन्ति, समरीचीनि सकिरणानीत्यर्थः, सोद्योतानि वस्त्वन्तरप्रकाशनकराणीत्यर्थः, पासाईएत्यादि प्राग्वत् । सोहम्मे णं भंते! कप्पे केवइया विमाणावासा पण्णत्ता ?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता । एवमीशानादिष्वपि द्रष्टव्यम्, एतदेवाह - एवं ईसाणाइसुति, एवं गाहाहिं भाणियव्वं ति बत्तीस अट्ठवीसा इत्यादिकाभिः 15 पूर्वोक्तगाथाभिः, तदनुसारेणेत्यर्थः, प्रतिकल्पं भिन्नपरिमाणा विमानावासा भणितव्यास्तद्वर्णकश्च वाच्यो यथा - ते णं विमाणेत्यादि यावत् पडिरूवा, नवरमभिलापभेदोऽयं यथा - ईसाणे णं भंते ! कप्पे केवइया विमाणावासा पण्णत्ता ?, गोयमा ! अट्ठावीस विमाणावाससयसहस्सा पण्णत्ता, ते णं विमाणा जाव पडिरूवा । एवं सर्वं पूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण च वाच्यमिति ॥ [सू० १५१] नेरेंइयाणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहन्त्रेणं दस वाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता । अपज्जत्तगाणं भंते ! नेरइयाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । १. यथा नास्ति जे२ ॥ २. प्रज्ञापनासूत्रे चतुर्थे स्थितिपदे विस्तरेणेदं सर्वं विद्यते ॥ Jain Education International For Private & Personal Use Only २६७ 20 www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy