SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २६६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे वातोद्भूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिता इति । तुङ्गा उच्चस्त्वगुणयुक्ताः, अत एव गयणतलमणुलिहंतसिहर त्ति गगनतलम् अम्बरमनुलिखद् अभिलङ्घयच्छिखरं येषां ते गगनतलानुलिखच्छिखराः । तथा जालान्तरेषु जालकमध्यभागेषु रत्नानि येषां ते जालान्तररत्नाः, इह प्रथमा5 बहुवचनलोपो द्रष्टव्यः, जालकानि च भवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभा) रत्नानि सम्भवन्त्येवेति । तथा पञ्जरोन्मीलिता इव पञ्जरबहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जराद् वंशादिमयप्रच्छादनविशेषाबहिः कृतमत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तेऽपीति भावः । तथा मणिकनकानां सम्बन्धिनी स्तूपिका शिखरं येषां ते मणिकनकस्तूपिकाकाः । तथा विकसितानि यानि शतपत्रपुण्डरीकाणि द्वारादौ 10 प्रतिकृतित्वेन तिलकाश्च भित्त्यादिषु पुण्ड्राणि रत्नमयाश्च ये अर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा ये ते विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राः । तथा अन्तर्बहिश्च श्लक्ष्णा मसृणा इत्यर्थः । तथा तपनीयं सुवर्णविशेषस्तन्मय्या वालुकायाः सिकतायाः प्रस्तट: प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः, पाठान्तरे तु सण्हशब्दस्य वालुकाविशेषणत्वात् श्लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयम् । तथा सुखस्पर्शाः शुभस्पर्शा वा, 15 तथा सश्रीकं सशोभं रूपम् आकारो येषाम् अथवा सश्रीकाणि शोभावन्ति रूपाणि नरयुग्मादीनि रूपकाणि येषु ते सश्रीकरूपाः, प्रासादीया दर्शनीयाः अभिरूपाः प्रतिरूपा इति पूर्ववत्। केवइएत्यादि, रत्नप्रभायाः पृथिव्या बहुसमरमणिजाओ भूमिभागाओ त्ति बहुसमरमणीयस्य भूमिभागस्य ऊर्ध्वम् उपरि, तथा चन्द्रमः-सूर्य-ग्रहगण-नक्षत्र20 तारारूपाणि, णमित्यलङ्कारे, किम् ? वीइवइत्त त्ति व्यतिव्रज्य व्यतिक्रम्येत्यर्थः, तारारूपाणि चेह तारका एवेति, तथा बहूनीत्यादि, किमित्याह– ऊर्ध्वम् उपरि दूरमत्यर्थं व्यतिव्रज्य चतुरशीतिर्विमानलक्षाणि भवन्तीति सम्बन्धः, इति मक्खाय त्ति इति एवंप्रकारा अथवा यतो भवन्ति तत आख्याताः सर्ववेदिनेति, ते णं ति तानि विमानानि, णमिति वाक्यालकारे, अच्चिमालिप्पभ त्ति अर्चिमाली १. जालमध्य' जे२ ॥ २. प्रसा' जे२ हे२ ॥ ३. केव इत्यादि जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy