________________
२५८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे नेरइया १ असुराई १० पुढवाई ५ बिंदियादओ ४ मणुया १ । वंतर १ जोइस १ वेमाणिया य १ अह दंडओ एवं ॥ [ ] ॥ [सू० १४९] [२] इमीसे णं रयणप्पभाए पुढवीए केवइयं ओगाहेत्ता केवइया णिरया पण्णत्ता? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए 5 आसीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा
चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए णेरइयाणं तीसं निरयावाससयसहस्सा भवंतीति मक्खाया । ते णं णरया अंतो वट्टा, बाहिं चउरंसा, जाव असुभा निरया असुभातो णरएसु
वेयणातो । 10 [टी०] अथानन्तरप्रज्ञापितानां नारकादीनां पर्याप्ता-ऽपर्याप्तभेदानां स्थाननिरूपणायाह
इमीसे णमित्यादि अवगाहनासूत्रादर्वाक् सर्वं कण्ठ्यम्, नवरं ते णं निरया इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यते - किल द्विविधा नरका भवन्ति आवलिकाप्रविष्टाः आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, ते
च वृत्त-त्र्यम्र-चतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषां च मध्ये इन्द्रकाः सीमन्तकादयो 15 भवन्ति, आवलिकाबाह्यास्तु पुष्पावकीर्णा दिविदिशामन्तरालेषु भवन्ति,
नानासंस्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्र च बाहुल्यमङ्गीकृत्येदमभिधीयते - अंतो वट्टेत्यादि, उक्तं च सूत्रकृद्वृत्तिकृता- नरका: सीमन्तकादिका बाहुल्यमङ्गीकृत्याऽन्त: मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरुप्रसंस्थानसंस्थिताः, एतच्च संस्थानं
पुष्पावकीर्णकानाश्रित्योक्तं तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्त-त्र्यम्र-चतुरस्रसंस्थाना 20 भवन्ती[सूत्रकृताङ्गवृ० ति, तत्रान्तर्वृत्ता मध्ये शुषिरमाश्रित्य, बहिश्चतुरस्रा
कुड्यपरिधिमाश्रित्य, यावत्करणादिदं दृश्यं यदुत- अधः क्षुरुप्रसंस्थानसंस्थिताः - १. “इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका किंसंठिया पण्णत्ता ? गोयमा ! दुविहा पन्नत्ता, तंजहाआवलियपविट्ठा य आवलियबाहिरा य । तत्थ णं जे ते आवलियपविट्ठा ते तिविहा पन्नत्ता, तंजहा- वट्टा तंसा चउरसा । तत्थ णं जे ते आवलियबाहिरा ते नानासंठाणसंठिता पन्नत्ता।" इति जीवाभिगमसूत्रे तृतीयायां प्रतिपत्तौ द्वितीये उद्देशके । अस्य सूत्रस्य चूर्णिरत्राभिप्रेता प्रतीयते । सम्प्रति जीवाभिगमचूर्णि!पलभ्यते ॥ २. अत्र प्रज्ञापनासूत्रस्य द्वितीये स्थानपदे १७४ तमं सूत्रं द्रष्टव्यम् ॥ ३. दृश्यतां सूत्रकृताङ्गस्य द्वितीये श्रुतस्कन्धे द्वितीयस्य अध्ययनस्य शीलाचार्यविरचितायां वृत्तौ ॥ ४. क्षुरप्र' हे२ ॥ ५. क्षुरप्र जे१ हे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org