________________
[सू० १४९] - जीवाजीवराशिवर्णनम् ।
२५७ इति, संसारसमापन्नास्तु पञ्चधैकेन्द्रियादिभेदेन, तत्रैकेन्द्रियाः पञ्चविधाः पृथिव्यादिभेदेन, पुनः प्रत्येकं द्विविधाः सूक्ष्म-बादरभेदेन, पुनः पर्याप्ता-ऽपर्याप्तभेदेन द्विधा, एवं द्वित्रि-चतुरिन्द्रिया अपि, पञ्चेन्द्रियाश्चतुर्द्धा नारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथिवीभेदात्, पञ्चेन्द्रियतिर्यञ्चस्त्रिधा जल-स्थल-खचरभेदात्, तत्र जलचराः पञ्चविधा मत्स्य-कच्छप-ग्राह-मकर-सुंसुमारभेदात् । पुनर्मत्स्या अनेकधा 5 श्लक्ष्णमत्स्यादिभेदात् । कच्छपा द्वेधा अस्थिकच्छप-मांसकच्छपभेदात्, ग्राहाः पञ्चधा दिलि-वेष्टक-मद्गु-पुलक-सीमाकारभेदात्, मकरा द्विधा शुण्डामकरा मष्टमकराश्च, संसुमारास्त्वेकविधाः, स्थलचरा द्विधा चतुष्पद-परिसर्पभेदात्, तत्र चतुष्पदाश्चतुर्द्धा एकखुर-द्विखुर-गण्डीपद-सनखपदभेदात्, क्रमेण चैते अश्व-गो-हस्ति-सिंहादयः, परिसर्पा द्विधा उर:परिसर्प-भुजपरिसर्पभेदात्, उर:परिसर्पाश्चतुर्द्धा अहि-अजगरा- 10 ऽऽशालिक-महोरगभेदात्, तत्राऽहयो द्विधा दर्वीकरा मुकुलिनश्चेति, खचराश्चतुर्द्धा चर्मपक्षिणो लोमपक्षिणः समुद्गपक्षिणो विततपक्षिणश्च, तत्राद्यौ द्वौ वल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेव स्तः, सर्वे च पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च द्विधासम्मूर्छिमा गर्भव्युत्क्रान्तिकाश्च, तत्र संमूर्च्छिमा: नपुंसका एव, इतरे तु त्रिलिङ्गा इति, गर्भव्युत्क्रान्तिकमनुष्यास्त्रिधा - कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेति, 15 कर्मभूमिजा द्विविधाः- आर्या म्लेच्छाश्च, आर्या द्वेधा - ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अर्हदादयः, द्वितीया नवविधाः क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषा-ज्ञान-दर्शनचारित्रभेदात् ।
देवाश्चतुर्विधाः भवनवास्यादिभेदात्, भवनपतयो दशधा असुर-नागादयः, व्यन्तरा अष्टधा पिशाचादयः, ज्योतिष्काः पञ्चधा चन्द्रादयः, वैमानिका द्वेधा कल्पोपगा: 20 कल्पातीताश्च, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा- ग्रैवेयका अनुत्तरोपपातिकाश्च, ग्रैवेयका नवधा, अनुत्तरोपपातिकाः पञ्चधेति, एतत् समस्तं सूचयतोक्तं जाव से किं तं अणुत्तरेत्यादि । पूर्वोक्तमेव जीवराशिं दण्डकक्रमेण द्विधा दर्शयन्नाह- दुविहेत्यादि सुगमम् । नवरं दंडओ त्ति । १. द्विधा जे२ हे१ ॥ २. द्वैधा जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org