________________
२५६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे निवर्तयतीति। तथा अनन्ता जीवाः प्राणिनः, एवमजीवाः व्यणुकादयः, भवसिद्धिका भव्याः इतरे तु अभव्याः । सिद्धा निष्ठितार्थाः, इतरे संसारिणः, आघविजंतीत्यादि पूर्ववदिति ।
[सू० १४९] [१] दुवे रासी पण्णत्ता, तंजहा- जीवरासी य अजीवरासी 5 य । अजीवरासी दुविहा पण्णत्ता, तंजहा- रूविअजीवरासी य
अरूविअजीवरासी य । से किं तं अरूविअजीवरासी ? अरूविअजीवरासी दसविहा पण्णत्ता, तंजहा- धम्मत्थिकाए जाव अद्धासमए, जाव से किं तं अणुत्तरोववातिया? अणुत्तरोववातिया पंचविहा पण्णत्ता, तंजहा- विजय
वेजयंत-जयंत-अपराजिय-सव्वट्ठसिद्धया, सेत्तं अणुत्तरोववातिया, सेत्तं 10 पंचेंदियसंसारसमावण्णजीवरासी ।
दुविहा णेरइया पण्णत्ता, तंजहा- पजत्ता य अपजत्ता य, एवं दंडओ भाणियव्वो जाव वेमाणिय त्ति ।
[टी०] द्वादशाङ्गस्य स्वरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः स्वरूपमभिधित्सुराह- दुवे रासीत्यादि । इह च प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं 15 सर्वं तदक्षरमध्येतव्यम्, किमवसानमित्याह- जाव से किं तमित्यादि, केवलमस्य
प्रज्ञापनासूत्रस्य चायं विशेषः, इह दुवे रासी पण्णत्ता इत्यभिलापः, तत्र तु दुविहा पण्णवणा पण्णत्ता - जीवपण्णवणा अजीवपण्णवणा य [प्रज्ञापना० ३] त्ति, अतिदिष्टस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तल्लेश उपदर्शातेतत्राऽजीवराशिर्द्विविधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा- धर्मास्तिकाय20 स्तद्देशस्तत्प्रदेशाश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपि वाच्यावेवं नव दशमोऽद्धासमय इति । रूप्यजीवराशिश्चतु - स्कन्धा देशाः प्रदेशाः परमाणवश्चेति, ते च वर्ण-गन्ध-रस-स्पर्श-संस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति । जीवराशिर्द्विविधः- संसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्ना जीवा द्विविधाःअनन्तर-परम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकारा १. प्रज्ञापना० १४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org