SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ [सू० १४९] नरकावासवर्णनम् । २५९ भूतलमाश्रित्य क्षुरुप्राकारास्तद्भूतलस्य संचारिसत्त्वपादच्छेदकत्वात्, अन्ये त्वाहुः - तेषामधस्तनोंऽशः क्षुरुप्र इवाग्रेऽग्रे प्रतलो विस्तीर्णश्चेति क्षुरप्रसंस्थानता । तथा निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेयवसापूयरुहिरमंसचिक्खल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा इति, तत्र नित्यं सर्वदा अन्धकारम् अन्धत्वकारकं बहलबलाहकपटलाऽऽच्छादित- 5 गगनमण्डलाऽमावास्याऽर्द्धरात्राऽन्धकारवत्तमः तमिदं येषु ते नित्यान्धकारतमसः, अथवा नित्येनान्धकारेण सार्वकालिकेनेत्यर्थः तमसः तमिस्रा नित्यान्धकारतमसः, जात्यन्धमेघाऽन्धकाराऽमावास्यानिशीथतुल्या इत्यर्थः, कथमित्यत आह– व्यपगता अविद्यमाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा दीपाद्यग्नेः प्रभा प्रकाशो येषु ते तथा, पह त्ति पथशब्दो वाऽयं व्याख्येयः, 10 तथा मेदो-वसा-पूय-रुधिर-मांसानि शरीरावयवास्तेषां यच्चिक्खल्लं कर्दमस्तेन लिप्तम् उपदिग्धमनुलेपनेन सकृल्लिप्तस्य पुनः पुनरुपलेपनेन तलं भूमिका येषां ते मेदोवसा-पूय-रुधिर-मांसचिखल्ललिप्तानुलेपनतलाः, यद्यपि च तत्र मेदःप्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्तयोच्यन्त इति, अशुचयो विश्राः आमगन्धयः पूतिगन्धय 15 इत्यर्थः, अत एव परमदुरभिगन्धा: काऊअगणिवण्णाभ त्ति कृष्णाग्निर्लोहादीनां ध्यायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव दुःखेन कृच्छ्रेणाधिसोढुं शक्यते वेदना येषु ते दुरधिसहाः, अत एवाऽशुभा नरका अत एव च अशुभा नरकेषु वेदना इति ।। [सू० १४९] [३] एवं सत्त वि भाणियव्वाओ जं जासु जुजति- 20 आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अट्ठत्तरमेव बाहल्लं ॥६४॥ तीसा य पण्णवीसा पण्णरस दसेव सयसहस्साई । तिण्णेगं पंचूणं पंचेव अणुत्तरा नरगा ॥६५॥ १. क्षुरप्र जे१ हे२ ॥ २. असुइ जे२ ॥ ३. तत्तया तत्त्वेन उच्यन्त इत्यर्थः ॥ ४. सह्या जे२ हे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy