________________
२४०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे सद्भूतद्विगुणप्रभावनरगणमतिविस्मयकर्यः, तासाम्, पुनः किंभूतानां तासाम् ? अतिसयमतीतकालसमये त्ति अतिशयेन योऽतीतः कालसमयः स तथा, तत्र, अतिव्यवहिते काले इत्यर्थः, दमः शमस्तत्प्रधानः तीर्थकराणां दर्शनान्तरशास्तृणामुत्तमो यः स तथा भगवान् जिनः, तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं स्थापनम् ‘आसीद् 5 अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकलप्रणायकशिरःशेखरकल्पः पुरुषविशेष एवंविधप्रश्नानामन्यथानुपपत्तेः' इत्येवंरूपम्, तस्य कारणानि हेतवो यास्तास्तथा, तासाम्, पुनस्ता एव विशिनष्टि दुरभिगमं दुरवबोधं गम्भीरसूक्ष्मार्थत्वेन दुरवगाहं च दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य, सर्वेषां सर्वज्ञानां सम्मतम् इष्टं सर्वसर्वज्ञसम्मतम्, अथवा
सर्वं च तत् सर्वज्ञसम्मतं चेति सर्वसर्वज्ञसम्मतं प्रवचनतत्त्वमित्यर्थः, तस्य, 10 अबुधजनविबोधनकरस्य एकान्तहितस्येति भावः, पच्चक्खयपच्चयकरीणं ति
प्रत्यक्षकेण ज्ञानेन साक्षादित्यर्थो यः प्रत्ययः ‘सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनम्' इत्येवंरूपा प्रतिपत्तिः, अथवा प्रत्यक्षेणेवानेनार्थाः प्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रतीतिः प्रत्यक्षताप्रत्ययस्तत्करणशीला:
प्रत्यक्षकप्रत्ययकर्यः प्रत्यक्षताप्रत्ययको वा, तासां प्रत्यक्षकप्रत्ययकरीणां 15 प्रत्यक्षताप्रत्ययकरीणां वा, कासामित्याह- प्रश्नानां प्रश्नविद्यानाम् उपलक्षणत्वादन्यासां
च यासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगुणा बहुविधप्रभावास्ते च ते महार्थाश्च महान्तोऽभिधेयाः पदार्थाः शुभाशुभसूचनादयो विविधगुणमहार्थाः, किंभूताः ? जिनवरप्रणीताः, किमित्याह आघविजंति त्ति आख्यायन्ते, शेषं पूर्ववत्, नवरं
यद्यपीहाध्ययनानां दशत्वाद् दशैवोद्देशनकाला भवन्ति तथापि वाचनान्तरापेक्षया 20 पञ्चचत्वारिंशदिति सम्भाव्यते इति पणयालीसमित्याद्यविरुद्धमिति । संखेजाणि
पयसयसहस्साणि पदग्गेणं ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति ॥१०॥
[सू० १४६] से किं तं विवागसुते ? विवागसुए णं सुकडदुक्कडाणं कम्माणं १. काल: समय: खं० ॥ २. समसमस्तत्प्र जे२ ॥ ३. प्रत्यक्षेणैवा' जे२ ॥ ४. प्रत्यक्षकप्रत्यय' जे२ ।। ५. 'नवतिल' हे२ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org