________________
[सू० १४५] प्रश्नव्याकरणवर्णनम् ।
२३९ भवनपतिविशेषैरुपलक्षणत्वाद् यक्षादिभिश्च सह ‘साधकस्य' इति गम्यते, दिव्या: तात्त्विकाः संवादाः शुभाशुभगताः संलापाः आख्यायन्ते । एतदेव प्रायः प्रपञ्चयन्नाहपण्हावागरणदसेत्यादि, स्वसमय-परसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकण्ड्वादिसदृशैर्विविधार्था यका भाषा गम्भीरेत्यर्थः तया भाषिताः गदिताः स्वसमयपरसमयप्रज्ञापकप्रत्येकबुद्धविविधार्थभाषाभाषिताः, तासाम्, किम् ? - 5 आदर्शाङ्गुष्ठादीनां सम्बन्धिनीनां प्रश्नानां विविधगुणमहार्थाः प्रश्नव्याकरणदशास्वाख्यायन्त इति योगः, पुनः किम्भूतानां प्रश्नानाम् ? अइसयगुणउवसमनाणप्पगारआयरियभासियाणं ति अतिशयाश्च आमर्पोषध्यादयो गुणाश्च ज्ञानादय उपशमश्च स्वपरभेदः, एते नानाप्रकारा येषां ते तथा, ते च ते आचार्याश्च तैर्भाषिता यास्तास्तथा, तासाम्, कथं भाषितानामित्याह- वित्थरेणं ति विस्तरेण महता वचनसन्दर्भेण, तथा 10 स्थिरमहर्षिभिः, पाठान्तरे वीरमहर्षिभिः विविहवित्थरभासियाणं च त्ति विविधविस्तरेण भाषितानाम्, चकारस्तृतीयप्रणायकभेदसमुच्चयार्थः, पुनः कथंभूतानां प्रश्नानाम् ? जगहियाणं ति जगद्धितानां पुरुषार्थोपयोगित्वात्, किंसम्बन्धिनीनामित्याहअद्दाग त्ति आदर्शश्चाङ्गुष्ठश्च बाहू च असिश्च मणिश्च क्षौमं च वस्त्रम् आदित्यश्चेति द्वन्द्वस्ते आदिर्येषां कुड्य-शङ्ख-घटादीनां ते तथा, तेषां 15 सम्बन्धिनीनाम्, प्रश्नविद्याभिरादर्शकादीनामावेशनात्, किंभूतानां प्रश्नानामत आह- विविधमहाप्रश्नविद्याश्च वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्नविद्याश्च मनःप्रनितार्थोत्तरदायिन्यः, तासां दैवतानि तदधिष्ठातृदेवताः, तेषां प्रयोगप्राधान्येन तद्व्यापारप्रधानतया गुणं विविधार्थसंवादनलक्षणं प्रकाशयन्ति लोके व्यञ्जयन्ति यास्ता विविधमहाप्रश्नविद्या-मनःप्रश्नविद्या-दैवतप्रयोगप्राधान्यगुणप्रकाशिकाः, 20 तासाम्, पुनः किंभूतानां प्रश्नानाम् ? सद्भूतेन तात्त्विकेन द्विगुणेन उपलक्षणत्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन, पाठान्तरे विविधगुणेन, प्रभावेन माहात्म्येन नरगणमते: मनुजसमुदयबुद्धेर्विस्मयकर्यः चमत्कारहेतवो याः प्रश्नास्ताः १. पहावागरणमित्यादि खं० जे१,२ ॥ २. वित्थारेणं हे१ विना ॥ ३. वित्थार' हे२ विना ॥ ४. प्रत्युत्तर जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org