SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ [सू० १४१] ज्ञाताधर्मकथावर्णनम् । २२७ श्रमकारणत्वाद् दुर्द्धरभरश्च दुर्वहलोहादिभारस्ताभ्यां भग्ना इति भग्नकाः पराङ्मुखीभूताः, तथा निसहा-निसट्ठाणं ति निःसहा नितरामशक्तास्त एव निःसहका निसृष्टाश्च निसृष्टाङ्गा मुक्ताङ्गा ये ते तपोनियमतपउपधानरणदुर्धरभरभग्नकनिःसहकनिसृष्टाः, पाठान्तरेण निःसहकनिविष्टाः, तेषाम्, इह च प्राकृतत्वेन ककारलोप-सन्धिकरणाभ्यां भग्ना इत्यादौ दीर्घत्वमवसेयम्, तथा घोरपरीषहैः पराजिताश्चासहाश्च असमर्थाः 5 सन्तः प्रारब्धाश्च परीषहैरेव वशीकर्तुं रुद्धाश्च मोक्षमार्गगमने ये ते घोरपरीषहपराजितासहप्रारब्धरुद्धाः, अत एव सिद्धालयमार्गात् ज्ञानादेर्निर्गताः प्रतिपतिता ये ते तथा, ते च ते ते चेति, तेषाम्, घोरपरीषहपराजितासहप्रारब्धरुद्धसिद्धालयमार्गनिर्गतानाम्, पाठान्तरेण घोरपरीषहपराजितानाम्, तथा सह युगपदेव परीषहैर्विशिष्टगुणश्रेणिमारोहन्तः प्ररुद्धरुद्धाः अतिरुद्धाः 10 सिद्धालयमार्गनिर्गताश्च ये ते तथा, तेषां सहप्ररुद्धरुद्धसिद्धालयमार्गनिर्गतानाम्, तथा विषयसुखे तुच्छे स्वरूपतः आशावशदोषेण मनोरथपारतन्त्र्यवैगुण्येन मूर्च्छिता अध्युपपन्ना ये ते तथा, तेषां विषयसुखतुच्छाशावशदोषमूर्च्छितानाम्, पाठान्तरेण विषयसुखे या महेच्छा कस्यांचिदवस्थायां या चावस्थान्तरे तुच्छाशा तयोर्वशः पारतन्त्र्यं तल्लक्षणेन दोषेण मूर्च्छिता ये ते तथा, तेषां 15 विषयसुखमहेच्छातुच्छाशावशदोषमूर्छितानाम्, तथा विराधितानि चरित्रज्ञानदर्शनानि यैस्ते तथा, तथा यतिगुणेषु विविधप्रकारेषु मूलगुणोत्तरगुणरूपेषु निःसारा: सारवर्जिताः पलञ्जिप्रायगुणधान्या इत्यर्थः, तथा तैरेव यतिगुणैः शून्यकाः सर्वथा अभावाद्ये ते तथेति पदत्रयस्य कर्मधारयोऽतस्तेषां विराधितचारित्रज्ञानदर्शनयतिगुणविविधप्रकारनिःसारशून्यकानाम्, किमत आह- 20 संसारे संसृतौ अपारदुःखा अनन्तक्लेशा ये दुर्गतिषु नारक-तिर्यक्-कुमानुषकुदेवत्वरूपासु भवा भवग्रहणानि तेषां या विविधाः परम्परा: पारम्पर्याणि तासां ये प्रपञ्चास्ते संसारापारदुःखदुर्गतिभवविविधपरम्पराप्रपञ्चाः, आख्यायन्ते इति पूर्वेण योगः, तथा धीराणां च महासत्त्वानाम्, किंभूतानाम् ? - जितं परीषहकषायसैन्यं यैस्ते तथा, धृते: मनःस्वास्थ्यस्य धनिका: स्वामिनो धृतिधनिकाः, 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy