SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २२६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयसताइं, एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयउवक्खाइयसताई, एवामेव सपुव्वावरेणं अद्भुट्ठातो अक्खाइयकोडीओ भवंतीति मक्खायाओ । एगूणतीसं उद्देसणकाला, एगूणतीसं समुद्देसणकाला, संखेजाइं पयसतसहस्साई पयग्गेणं पण्णत्ते । 5 संखेजा अक्खरा जाव चरणकरणपरूवणया आघविज्जति । सेत्तं णायाधम्मकहातो । [टी०] से किं तमित्यादि, अथ कास्ता ज्ञाताधर्मकथा: ? ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथाः, दीर्घत्वं संज्ञात्वाद्, अथवा प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि द्वितीयस्तु तथैव धर्मकथाः, ततश्च ज्ञातानि च धर्मकथाश्च 10 ज्ञाताधर्मकथाः, तत्र प्रथमव्युत्पत्त्यर्थं सूत्रकारो दर्शयन्नाह- नायाधम्मकहासु ण मित्यादि, ज्ञातानाम् उदाहरणभूतानां मेघकुमारादीनां नगरादीन्याख्यायन्ते, नगरादीनि द्वाविंशतिः पदानि कण्ठ्यानि च, नवरमुद्यानं पत्र-पुष्प-फल-च्छायोपगवृक्षोपशोभितं विविधवेषोन्नतमानश्च बहजनो यत्र भोजनार्थं यातीति, चैत्यं व्यन्तरायतनम. वनखण्डोऽनेकजातीयैरुत्तमैर्वृक्षरुपशोभित इति। आघविजंति, इह यावत्करणादन्यानि 15 पञ्च पदानि दृश्यानि यावदयं सूत्रावयवो यथा नायाधम्मेत्यादि, तत्र ज्ञाताधर्मकथासु णमित्यलङ्कारे, प्रव्रजितानाम्, व? विनयकरणजिनस्वामिशासनवरे कर्मविनयकरे जिननाथसम्बन्धिनि शेषप्रवचनापेक्षया प्रधाने प्रवचने इत्यर्थः, पाठान्तरेण समणाणं विणयकरणजिणसासणम्मि पवरे, किंभूतानाम् ? संयमप्रतिज्ञा संयमाभ्युपगमः सैव दुरधिर्गमत्वात् कातरनरक्षोभकत्वाद् गम्भीरत्वाच्च पातालमिव पातालम्, तत्र, 20 धृतिमतिव्यवसाया दुर्लभा येषां ते तथा, पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बला ये ते तथा, तेषाम्, तत्र धृतिः चित्तस्वास्थ्यम्, मतिः बुद्धिः, व्यवसाय: अनुष्ठानोत्साह इति, तथा तपसि नियमः अवश्यं करणं तपोनियमो नियन्त्रित(तं) तपः, स च तपउपधानं चानियन्त्रितं तप एव श्रुतोपचारतपो वा तपोनियमतपउपधाने ते एव रणश्च कातरनरक्षोभकत्वात् सङ्ग्रामो दुद्धरभर त्ति १. 'गम्यत्वात् हे२ विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy