SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २२८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तथा संयमे उत्साहो वीर्यं निश्चित: अवश्यंभावी येषां ते संयमोत्साहनिश्चिताः, ततः पदत्रयस्य कर्मधारयः, अतस्तेषां जितपरीषहकषायसैन्यधृतिधनिकसंयमोत्साहनिश्चितानाम्, तथा आराधिता ज्ञानदर्शनचारित्रयोगा यैस्ते तथा, निःशल्यो मिथ्यादर्शनादिरहितः शुद्धश्च अतीचारवियुक्तो यः सिद्धालयस्य सिद्धेर्मार्गस्तस्या5 ऽभिमुखा ये ते तथा, ततः पदद्वयस्य कर्मधारयः, अतस्तेषामाराधितज्ञानदर्शनचारित्रयोगनिःशल्यशुद्धसिद्धालयमार्गाभिमुखानाम्, किमत आह– सुरभवने देवतयोत्पादे यानि विमानसौख्यानि तानि सुरभवनविमानसौख्यानि अनुपमानि ज्ञाताधर्मकथास्वाख्यायन्त इति प्रक्रमः, इह च भवनशब्देन भवनपतिभवनानि न व्याख्यातान्यविराधितसंयमप्रव्रजितप्रस्तावात्, ते हि भवनपतिषु नोत्पद्यन्त इति, 10 तथा भुक्त्वा चिरं च भोगभोगान् मनोज्ञशब्दादीन् तांस्तथाविधान् दिव्यान् स्वर्गभवान् महार्हान्, महतः आत्यन्तिकान् अर्हान् प्रशस्ततया पूज्यानिति भावः, ततश्च देवलोकात् कालक्रमच्युतानां यथा च पुनर्लब्धसिद्धिमार्गाणां मनुजगताववाप्तज्ञानादीनामन्तक्रिया मोक्षो भवति तथाऽऽख्यायत इति प्रक्रमः, तथा चलितानां च कथञ्चित् कर्मवशतः परीषहादावधीरतया संयमप्रतिज्ञाया भ्रष्टानां सह 15 देवैर्मानुषाः सदेवमानुषास्तेषां सम्बन्धीनि धीरकरणे धीरत्वोत्पादने यानि कारणानि ज्ञातानि तानि सदेवमानुषधीरकरणकारणानि आख्यायन्त इति प्रक्रमः, इयमत्र भावना - यथा आर्याषाढो देवेन धीरीकृतो यथा वा मेघकुमारो भगवता, शैलकाचार्यो वा पन्थकसाधुना धीरीकृतः एवं धीरकरणकारणानि तत्राख्यायन्ते, किंभूतानि तानीत्याह- बोधनानुशासनानि, बोधनानि मार्गभ्रष्टस्य मार्गसंस्थापनानि अनुशासनानि 20 दुस्थस्य सुस्थतासम्पादनानि, अथवा बोधनम् आमन्त्रणं तत्पूर्वकान्यनुशासनानि बोधनानुशासनानि, तथा गुणदोषदर्शनानि संयमाराधनायां गुणा इतरत्र दोषा भवन्तीत्येवंदर्शनानि वाक्यान्याख्यायन्त इति योगः, तथा दृष्टान्तान् ज्ञातानि प्रत्ययांश्च बोधिकारणभूतानि वाक्यानि श्रुत्वा लोकमुनयः शुकपरिव्राजकादयो यथा च येन च प्रकारेण स्थिताः शासने जरा-मरणनाशनकरे जिनानां सम्बन्धिनीति भावः, १. धीरीकरण जे२ हे२, खंसं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy