SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २२४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पुनः किंभूतानां व्याकरणानाम् ?, लोकालोको प्रकाशितौ येषु तानि तथा, तेषाम्, तथा संसारसमुद्दरुंदउत्तरणसमत्थाणं ति संसारसमुद्रस्य रुंदस्य विस्तीर्णस्य उत्तरणे तारणे समर्थानामित्यर्थः, अत एव सुरपतिसंपूजितानां प्रच्छक-निर्णायकपूजनात् सूक्तत्वेन श्लाघितत्वाद्वा, तथा भवियजणपयहिययाभिणंदियाणं ति भव्यजनानां 5 भव्यप्राणिनां प्रजा लोको भव्यजनप्रजा भव्यजनपदो वा, तस्यास्तस्य वा हृदयैः चित्तैरभिनन्दितानां अनुमोदितानामिति विग्रहः, तथा तमोरजसी अज्ञान-पातके विध्वंसयति नाशयति यत्तत्तमोरजोविध्वंसं तच्च तद् ज्ञानं च तमोरजोविध्वंसज्ञानम्, तेन सुष्ठ दृष्टानि निर्णीतानि यानि तानि तथा, अत एव तानि च तानि दीपभूतानि चेति, अत एव तानि च तानि ईहामतिबुद्धिवर्द्धनानि चेति, तेषां 10 तमोरजोविध्वंसज्ञानसुदृष्टदीपभूतेहामतिबुद्धिवर्द्धनानाम्, तत्र ईहा वितर्कः, मतिः अवायो निश्चय इत्यर्थः, बुद्धिः औत्पत्तिक्यादिश्चतुर्विधेति, अथवा तमोरजोविध्वंसनानामिति पृथगेव पदम्, पाठान्तरेण सुदृष्टदीपभूतानामिति च, तथा छत्तीससहस्समणूणयाणं ति अन्यूनकानि षट्त्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति, वागरणाणं ति व्याक्रियन्ते 15 प्रश्नानन्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि, तेषां दर्शनात् प्रकाशनादुपनिबन्धनादित्यर्थः, अथवा तेषां दर्शना उपदर्शका इत्यर्थः, क इत्याहसुयत्थबहुविहप्पयार त्ति श्रुतविषया अर्थाः श्रुतार्था अभिलाप्यार्थविशेषा इत्यर्थः, श्रुता वा आकर्णिता जिनसकाशे गणधरेण ये अर्थास्ते श्रुताः , अथवा श्रुतमिति सूत्रम् अर्था निर्युक्त्यादय इति श्रुतार्थाः, ते च ते बहुविधप्रकाराश्चेति विग्रहः, 20 श्रुतार्थानां वा बहुविधाः प्रकारा इति विग्रहः, किमर्थं ते व्याख्यायन्त इत्याह शिष्यहितार्थाय शिष्याणां हितम् अनर्थप्रतिघाता-ऽर्थप्राप्तिरूपं तदेवाऽर्थः प्रार्थ्यमानत्वात्तस्य, तस्मै इति, किंभूतास्ते अत आह- गुणहस्ताः, गुण एवार्थप्राप्त्यादिलक्षणो हस्त इव हस्तः प्रधानावयवो येषां ते तथा । वियाहस्सेत्यादि तु निगमनान्तं सूत्रसिद्धम्, नवरं शतमिहाध्ययनस्य संज्ञा । 25 चतुरशीतिः पदसहस्राणि पदाग्रेणेति समवायापेक्षया द्विगुणताया इहानाश्रयणात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy