________________
२२३
[सू० १४०]
व्याख्याप्रज्ञप्ति[=भगवतीसूत्र]वर्णनम् । .. अज्झयणसते, दस उद्देसगसहस्साइं, दस समुद्देसगसहस्साइं, छत्तीसं वागरणसहस्साई, चउरासीति पयसहस्साई पयग्गेणं पण्णत्ते । संखेजाई अक्खराइं, अणंता गमा जाव सासया कडा णिबद्धा [णिकाइया जिणपण्णत्ता भावा] आघविजंति जाव एवं चरणकरणपरूवणया आघविजति । सेत्तं वियाहे ।
5 [टी०] से किं तं वियाहे इत्यादि, अथ केयं व्याख्या ?, व्याख्यायन्ते अर्था यस्यां सा व्याख्या, वियाहे इति च पुलिँङ्गनिर्देशः प्राकृतत्वात्, वियाहेणं ति व्याख्यया व्याख्यायां वा ससमया इत्यादीनि नव पदानि सूत्रकृतवर्णके व्याख्यातत्वादिह कण्ठ्यानि। वियाहेणमित्यादि, नानाविधैः सुरैः नरेन्द्रैः राजऋषिभिश्च विविहसंसइय त्ति विविधसंशयितैः विविधसंशयवद्भिः पृष्टानि यानि तानि तथा, तेषां 10 नानाविधसुरनरेन्द्रराजऋषिविविधसंशयितपृष्टानां व्याकरणानां षट्त्रिंशतः सहस्राणां दर्शनात् श्रुतार्था व्याख्यायन्त इति पूर्वापरेण वाक्यसंबन्धः, पुनः किंभूतानां व्याकरणानाम् ? जिनेनेति भगवता महावीरेण वित्थरेण भासियाणं विस्तरेण भणितानामित्यर्थः, पुनः किंभूतानाम् ? दव्वेत्यादि, द्रव्य-गुण-क्षेत्र-काल-पर्यवप्रदेश-परिणामानां यथास्तिभावोऽनुगम-निक्षेप-नय-प्रमाण-सुनिपुणोप- 15 क्रमैर्विविधप्रकारैः प्रकटः प्रदर्शितो यैर्व्याकरणैस्तानि तथा, तेषाम्, तत्र द्रव्याणि धर्मास्तिकायादीनि, गुणा ज्ञान-वर्णादयः, क्षेत्रम् आकाशम्, काल: समयादिः, पर्यवाः स्व-परभेदभिन्ना धर्माः, अथवा कालकृता अवस्था नव-पुराणादयः पर्यवाः, प्रदेशा निरंशावयवाः, परिणामाः अवस्थातोऽवस्थान्तरगमनानि, यथा येन प्रकारेणाऽस्तिभावः अस्तित्वं सत्ता यथाऽस्तिभावः, अनुगम: 20 संहितादिव्याख्यानप्रकाररूपः उद्देश-निर्देश-निर्गमादिद्वारकलापात्मको वा, निक्षेपो नामस्थापना-द्रव्य-भावैर्वस्तुनो न्यासः, नयप्रमाणम्, नया नैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात् ज्ञाननय-क्रियानयभेदान्निश्चय-व्यवहारभेदाद्वा द्वौ, ते एव तावेव वा प्रमाणं वस्तुतत्त्वपरिच्छेदनं नयप्रमाणम्, तथा सुनिपुणः सुसूक्ष्मः सुनिगुणो वा सुष्ठ निश्चितगुण उपक्रमः आनुपूर्व्यादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org