________________
१९२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे षण्णवतिस्थानकम् । साहम्रिकोत्सेधपरिहाणौ, साहसिकोद्वेधता भवति लवणस्येति, अथवा उद्वेधार्थं योत्सेधपरिहाणिस्तस्यां पञ्चनवतिः प्रदेशाः प्रज्ञप्ताः, तेष्वतिलघितेषु उत्सेधतः . प्रदेशपरिहाण्यामुद्वेधः प्रादेशिको भवतीति ।।
तथा कुन्थुनाथस्य सप्तदशतीर्थकरस्य कुमारत्व-माण्डलिकत्व-चक्रवर्त्तित्वा5 ऽनगारत्वेषु प्रत्येकं त्रयोविंशतेर्वर्षसहस्राणामर्द्धाष्टमवर्षशतानां च भावात् सर्वायुः पञ्चनवतिवर्षसहस्राणि भवतीति । तथा मौर्यपुत्रो महावीरस्य सप्तमगणधरस्तस्य पञ्चनवतिर्वर्षाणि सर्वायुः, कथम् ?, गृहस्थत्व-छद्मस्थत्व-केवलित्वेषु क्रमेण पञ्चषष्टिचतुर्दश-षोडशानां वर्षाणां भावादिति ॥९५॥
[सू० ९६] एगमेगस्स णं रणो चाउरंतचक्कवट्टिस्स छण्णउति छण्णउतिं 10 गामकोडीओ होत्था । , वायुकुमाराणं छण्णउइं भवणावाससतसहस्सा पण्णत्ता ।
वावहारिए णं दंडे छण्णउतिं अंगुलाणि अंगुलपमाणेणं, एवं धणू नालिया जुगे अक्खे मुसले वि ।
अब्भंतराओ आइमुहुत्ते छण्णउतिं अंगुलच्छाये पण्णत्ते । 15 [टी०] अथ षण्णवतिस्थानके किमपि व्याख्यायते, वायुकुमाराणां
षण्णवतिर्भवनलक्षाणि दक्षिणस्यां पञ्चाशत उत्तरस्यां च षट्चत्वारिंशतो भावादिति। वावहारिए त्ति व्यावहारिको येन गव्यूतादिप्रमाणं चिन्त्यते, अव्यावहारिकस्तु लघुः दीर्घो वा भवत्युक्तप्रमाणात्, दण्डो हि चतुःकर उक्तः, करश्च चतुर्विंशत्यगुलः, एवं
चतुर्विंशतौ चतुर्गुणितायां षण्णवतिः स्यादेवेति । अब्भंतराओ इत्यादि, अभ्यन्तराद् 20 अभ्यन्तरं मण्डलमाश्रित्येत्यर्थः, आदिमुहूर्तः षण्णवत्यङ्गुलच्छायः प्रज्ञप्तः, अयमत्र
भावार्थ:- सर्वाभ्यन्तरे मण्डले यत्र दिने सूर्यश्चरति तस्य दिनस्य प्रथमो मुहूर्तो द्वादशाङ्गुलमानं शकुमाश्रित्य षण्णवत्यङ्गुलच्छायो भवति, तथाहितद्दिनमष्टादशमुहूर्तप्रमाणं भवतीति मुहूर्तोऽष्टादशभागो दिनस्य भवति, ततश्च छायागणितप्रक्रियया छेदेनाष्टादशलक्षणेन द्वादशाङ्गुलः शङ्कुर्गुण्यत इति, ततो द्वे शते १. हे१ विना- णास्यां पंचाशत उत्तरास्यां च जे१,२ खं० । णायां पंचाशत उत्तरायां च हे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org