SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ [सू० ९५] पञ्चनवतिस्थानकम् । संवादगाथा- चउणउइसहस्साइं छप्पण्णहियं सयं कला दो य । जीवा निसहस्सेसा [बृहत्क्षेत्र ६०] इति ॥९४॥ [सू० ९५] सुपासस्स णं अरहतो पंचाणउतिं गणा पंचाणउतिं गणहरा होत्था । . जंबुद्दीवस्स णं दीवस्स चरिमंताओ चउद्दिसिं लवणसमुदं पंचाणउतिं 5 पंचाणउतिं जोयणसहस्साई ओगाहित्ता चत्तारि महापायाला पण्णत्ता, तंजहावलयामुहे केउए जुयते ईसरे । लवणसमुदस्स उभओपासिं पि पंचाणउतिं पंचाणउतिं पदेसा . उव्वेधुस्सेधपरिहाणीए पण्णत्ता । कुंथू णं अरहा पंचाणउतिं वाससहस्साई परमाउयं पालयित्ता सिद्धे बुद्धे 10 जाव प्पहीणे । थेरे णं मोरियपुत्ते पंचाणउतिं वासाइं सव्वाउयं पालयित्ता सिद्धे बुद्धे जाव प्पहीणे । [टी०] अथ पञ्चनवतिस्थानके किञ्चिल्लिख्यते, लवणसमुद्रस्योभयपार्श्वतोऽपि पञ्चनवतिः पञ्चनवतिः प्रदेशा उद्वेधोत्सेधपरिहाण्यां विषये प्रज्ञप्ताः, अयमत्र 15 भावार्थः- लवणसमुद्रमध्ये दशसाहम्रिकक्षेत्रस्य समधरणीतलापेक्षया सहस्रमुद्वेधः, उण्डत्वमित्यर्थः, तदनन्तरं पञ्चनवतिं प्रदेशानतिक्रम्योद्वेधस्य प्रदेशः परिहीयते, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा उद्वेधस्य प्रदेशो हीयते, एवं पञ्चनवतिपञ्चनवतिप्रदेशातिक्रमे प्रदेशमात्रस्य प्रदेशमात्रस्योद्वेधस्य हान्या पञ्चनवत्यां योजनसहस्रेष्वतिक्रान्तेषु समुद्रतटप्रदेशे उद्वेधतः सहस्रस्यापि परिहाणिर्भवति, समभूतलत्वं भवतीत्यर्थः, तथा 20 समुद्रमध्यभागापेक्षया तत्तटस्य साहसिक उत्सेधो भवति, उत्सेधश्चोच्चत्वम्, तत्र समधरणीतलरूपात् तत्तटात् पञ्चनवतिं प्रदेशानतिक्रम्य एकप्रदेशिका उत्सेधस्य परिहाणिर्भवति, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा प्रादेशिक्येवोत्सेधहानिर्भवति, एवं पञ्चनवतिपञ्चनवतिप्रदेशातिक्रमेण प्रादेशिक्या प्रादेशिक्या उत्सेधहान्या पञ्चनवत्यां योजनसहस्रेष्वतिक्रान्तेषु समुद्रमध्यभागे सहस्रमपि उत्सेधस्य परिहीयते, एवं 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy