________________
5
10
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
अब्भासच्छण १ छंदाणुवत्तणं २ कयपडिकीई तहय ३ । कारियनिमित्तकरणं ४ दुक्खत्तगवेसणा तहय ५ ॥ तह देसकालजाणण ६ सव्वत्थेसु तहय अणुमई भणिया ७ । उवयारिओ उ विणओ एसो भणिओ समासेणं ॥ [ ] ति,
अभ्यासासनम् उपचरणीयस्यान्तिकेऽवस्थानम्, छन्दानुवर्त्तनम् अभिप्रायानुवृत्तिः, कृतप्रतिकृतिर्नाम प्रसन्ना आचार्याः सूत्रादि दास्यन्ति 'न नाम निर्जरा' इति मन्यमानस्याहारादिदानम्, कारितनिमित्तकरणं सम्यक् शास्त्रमध्यापितस्य विशेषेण विनये वर्त्तनं तदर्थानुष्ठानं च, शेषाणि प्रसिद्धानि, तथा वैयावृत्यं दशधा, यदाहआयरिय उवज्झाए थेर- तवस्सी गिलाण - सेहाणं ।
20
१८८
साहम्मिय-कुल-गण-संघसंगयं तमिह कायव्वं ॥ [ ] ति,
तत्र प्रव्राजना १ दिगु २ देश ३ समुद्देश ४ वाचना ५ चार्यभेदादाचार्यस्य च पञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदाः, एते एव अभिग्रहविषयीकृताः प्रतिमा उच्यन्त इति ।
तथा कालोयणे त्ति कालोदसमुद्रः, स चैकनवतिर्लक्षाणि साधिकानि परिक्षेपेण, 15 आधिक्यं च सप्तत्या सहस्रैः षड्भिः शतैः पञ्चोत्तरैः सप्तदशभिर्धनुः शतैः पञ्चदशोत्तरैः सप्ताशीत्या चाङ्गुलैः साधिकैरिति । आहोहि त्ति नियतक्षेत्रविषयावधयः । आयुर्गोत्रवज्र्जानां षण्णामिति ज्ञानावरण- - दर्शनावरण- वेदनीय मोहनीय-नामाऽन्तरायाणां क्रमेण पञ्च-नव-द्व्यष्टाविंशति-द्विचत्वारिंशत्-पञ्चभेदानामिति ॥९१॥
[सू० ९२] बाणउई पडिमातो पण्णत्ताओ ।
थेरे णं इंदभूती बाणउतिं वासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे [जाव प्पहीणे] ।
मंदरस्स णं पव्वतस्स बहुमज्झदेसभागातो गोथुभस्स आवासपव्वतस्स पच्चत्थिमिल्ले चरिमंते एस णं बाणउतिं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते। एवं चउण्ह वि आवासपव्वयाणं ।
१. शास्त्रपदमपितस्य खं० ॥ २. 'भेदाचार्य' जे२ खंमू० ॥ ३. सत्कारादि १०, अनाशातनादि ६०, औपचारिक ७, वैयावृत्य १४ = ९१ ॥ ४. कालायणे जे१, २ हे१,२ ॥ ५. अहो जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org