________________
[सू० ९१]
एकनवतिस्थानकम् ।
१८७
आउय-गोयवजाणं छहँ कम्मपगडीणं एक्काणउतिं उत्तरपगडीओ पण्णत्ताओ।
[टी०] अथैकनवतिस्थानके किञ्चिद्वितन्यते, तत्र परेषाम् आत्मव्यतिरिक्तानां वैयावृत्यकर्माणि भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषयाः प्रतिमाः अभिग्रहविशेषाः परवैयावृत्यकर्मप्रतिमाः, एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि, 5 केवलं विनय-वैयावृत्यभेदा एते सन्ति, तथाहि- दर्शनगुणाधिकेषु सत्कारादिर्दशधा विनयः, आह च
सक्कार १ अब्भुट्ठाणे २ सम्माणा ३ ऽऽसणअभिग्गहो ४ तह य । आसणअणुप्पयाणं ५ किइकम्मं ६ अंजलिगहो य ७ ॥ इंतस्सणुगच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९ । गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ ॥ [ ] त्ति । तत्र सत्कारो वन्दन-स्तवनादिः १, अभ्युत्थानम् आसनत्याग: २, सन्मानो वस्त्रादिपूजनम् ३, आसनाभिग्रहः तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनमिति ४, आसनानुप्रदानम् आसनस्य स्थानात् स्थानान्तरसञ्चारणम् ५, कृतिकादीनि । प्रकटानि । तथा तीर्थकरादीनां पञ्चदशानां पदानामनाशातनादिपदचतुष्टयगुणितत्वे 15 षष्टिविधोऽनाशातनाविनयो भवति, तथाहितित्थयर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । सम्भोइय ९ किरियाए १० मइनाणाईण १५ य तहेव ॥ [ ]
अत्र भावना- तीर्थकराणामनाशातना, तीर्थकरप्रज्ञप्तस्य धर्मस्य अनाशातना, एवं सर्वत्र । कायव्वा पुण भत्ती बहुमाणो तह य वण्णवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥ [ ] ति । तथौपचारिकविनयः सप्तधा, यदाह१. एता वक्ष्यमाणाश्च सर्वा अपि विनयसम्बद्धा गाथा दशवैकालिकस्य प्रथमेऽध्ययने हरिभद्रसूरिविरचितायां वृत्तावन्यत्र च समुद्धृताः सन्ति । विशेषतो जिज्ञासुभिः परिशिष्टे टिप्पनेषु द्रष्टव्यम् ॥
__20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org