________________
[सू० ९२] द्विनवतिस्थानकम् ।
१८९ [टी०] अथ द्विनवतिस्थानके किमप्यभिधीयते, द्विनवतिः प्रतिमाः अभिग्रहविशेषाः, ताश्च दशाश्रुतस्कन्धनियुक्त्यनुसारेण दर्श्यन्ते, तत्र किल पञ्च प्रतिमा उक्ताः, तद्यथासमाधिप्रतिमा १, उपधानप्रतिमा २, विवेकप्रतिमा ३, प्रतिसंलीनताप्रतिमा ४, एकविहारप्रतिमा चेति ५ । तत्र समाधिप्रतिमा द्विविधा- श्रुतसमाधिप्रतिमा चारित्रसमाधिप्रतिमा च, दर्शनं ज्ञानान्तर्गतमिति न भिन्ना दर्शनप्रतिमा विवक्षिता, तत्र 5 श्रुतसमाधिप्रतिमा द्विषष्टिभेदा, कथम् ?, आचारे प्रथमे श्रुतस्कन्धे पञ्च, द्वितीये सप्तत्रिंशत्, स्थानाङ्गे षोडश, व्यवहारे चतस्र इत्येता द्विषष्टिः, एताश्च चरित्रस्वभावा अपि विशिष्टश्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टा इति सम्भावयामः । पञ्च सामायिकच्छेदोपस्थापनीयाद्याश्चारित्रसमाधिप्रतिमाः । उपधानप्रतिमा द्विविधा- भिक्षु-श्रावकभेदात्, तत्र भिक्षुप्रतिमा मासाई सत्तता [पञ्चाशक० १८॥३] 10 इत्यादिनाऽभिहितस्वरूपा द्वादश, उपासकप्रतिमास्तु दसणवय [पञ्चाशक० १०॥३] इत्यादिनाऽभिहितस्वरूपा एकादशेति सर्वास्त्रयोविंशतिः । विवेकप्रतिमा त्वेका क्रोधादेराभ्यन्तरस्य गण-शरीरोपधि-भक्त-पानादेर्बाह्यस्य च विवेचनीयस्यानेकत्वेऽप्येकत्वविवक्षणादिति । प्रतिसंलीनताप्रतिमाऽ-प्येकैव इन्द्रियस्वरूपस्य पञ्चविधस्य नोइन्द्रियस्वभावस्य च योग-कषाय-विविक्तशयना-ऽऽसनभेदतस्त्रिविधस्य 15 प्रतिसंलीनताविषयस्य भेदेनाविवक्षणादिति, पञ्चम्येकविहारप्रतिमैकैव, न चेह सा भेदेन विवक्षिता, भिक्षुप्रतिमास्वन्त वितत्वादित्येवं द्विषष्टिः पञ्च त्रयोविंशतिरेका एका च द्विनवतिस्ता भवन्तीति ।
स्थविर इन्द्रभूतिर्महावीरस्य प्रथमगणनायकः, स च गृहस्थपर्यायं पञ्चाशतं वर्षाणि त्रिंशतं छद्मस्थपर्यायं द्वादश च केवलित्वं पालयित्वा सिद्ध इति सर्वाणि द्विनवतिरिति। 20 ___ मंदरस्सेत्यादेर्भावार्थ:- मेरुमध्यभागात् जम्बूद्वीपः पञ्चाशत् सहस्राणि ततो १. “मासाई सत्तंता पढ़मा बिति सत्त राइदिणा । अहराई एगराई भिक्खुपडिमाण बारसगं ॥१॥" इति सम्पूर्णा गाथा । आवश्यकसूत्रे प्रतिक्रमणाध्ययने 'बारसहिं भिक्खुपडिमाहिं' इति सूत्रस्य व्याख्यानरूपे मूलभाष्येऽपि गाथेयं वर्तते, व्याख्याता च तत्र हरिभद्रसूरिभिः ॥ २. 'दसण वय सामाइय पोसहपडिमा अबंभ सच्चित्ते । आरंभ पेस उद्दिट्ठवजए समणभूए य ॥' इति सम्पूर्णा गाथा । गाथेयम् आवश्यकसूत्रे प्रतिक्रमणाध्ययने 'इगारसहिं उवासगपडिमाहिं' इति सूत्रस्य मूलभाष्येऽपि वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org