________________
१६६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे विज्ञानानीत्यर्थः, ताश्च कलनीयभेदाद् द्विसप्ततिर्भवन्ति, तत्र लेखनं लेखोऽक्षरविन्यासः, तद्विषया कला विज्ञानं लेख एवोच्यते एवं सर्वत्र, स च लेखो द्विधा- लिपिविषयभेदात्, तत्र लिपिरष्टादशस्थानकोक्ता, अथवा लाटादिदेश
भेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथाहि- पत्र-वल्क-काष्ठ-दन्त5 लोह-ताम्र-रजतादयो अक्षराणामाधारास्तथा लेखनोत्कीर्णन-स्यूत-व्यूत-च्छिन्न-भिन्नदग्ध-सङ्क्रान्तितोऽक्षराणि भवन्तीति, विषयापेक्षयाप्यनेकधा- स्वामि-भृत्य-पितृपुत्र-गुरु-शिष्य-भार्या-पति-शत्रु-मित्रादीनां लेखविषयाणामनेकत्वात्तथाविधप्रयोजनभेदाच्च, अक्षरदोषाश्चैते
अतिकार्यमतिस्थौल्यम्, वैषम्यं पङ्क्तिवक्रता । 10 अतुल्यानां च सादृश्यमविभागोऽवयवेषु च ॥ [ ] इति १,
तथा गणितं सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धम् २, रूपं लेप्य-शिलासुवर्ण-मणि-वस्त्र-चित्रादिषु रूपनिर्माणम् ३, नाट्यं कला भरतमार्गच्छलिकं लास्यविधानमित्यादिभेदादष्टधा, नाट्यग्रहणात् नृत्तकलापि गृहीता, सा च अभिनयिका
अङ्गहारिका व्यायामिका चेति त्रिभेदा, स्वरूपं चात्र भरतशास्त्रादवसेयम् ४, तथा 15 गीतं कला, सा च निबन्धमार्ग-छलिकमार्ग-भिन्नमार्गभेदात् त्रिधा, तत्र
__सप्त स्वरास्त्रयो ग्रामा, मूर्च्छना एकविंशतिः ।
___ताना एकोनपञ्चाशत् समाप्तं स्वरमण्डलम् ॥ [ ] इयं च विशाखिलशास्त्रावसेयेति ५, वाइयं ति वाद्यकला, सा च तत-विततशुषिर-घनवाद्यानां चतुष्पञ्चत्र्येकप्रकारतया त्रयोदशधा ६ इत्यादिकः कलाविभागो 20 लौकिकशास्त्रेभ्योऽवसेयः, इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणि च सूत्रे तन्नामान्युपलभ्यन्ते, तत्र च कासांचित् कासुचिदन्तर्भावोऽवगन्तव्य इति ॥७२॥
[सू० ७३] हरिवस्स-रम्मयवस्सियातो णं जीवातो तेवत्तरिं तेवत्तरिं जोयणसहस्साइं नव य एक्कुत्तरे जोयणसते सत्तरस य एकूणवीसतिभागे १. भरतविरचिते नाट्यशास्त्रे चतुर्थोऽध्यायोद्रष्टव्यः ।। २. भिन्नमाण्णमार्गजे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org