SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १६३ [सू० ७१] एकसप्ततिस्थानकम् । आदित्यसंवत्सरे दिनानां शतत्रयं षट्षष्टिश्च भवन्ति, तत्रितये च सहस्रमष्टनवत्यधिकं भवति, इह च किल चन्द्रयुगमादित्ययुगं चाषाढ्यामेकं पूर्यतेऽपरं च श्रावणकृष्णप्रतिपदि आरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षट्पञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीति कृत्वा आदित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिनषट्के साधिके पूर्यते चन्द्रयुगसंवत्सरत्रयं त्वाषाढ्याम्, ततश्च 5 श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणायनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिनभूतायां कार्तिक्यां द्वादशोत्तरशततमे स्वकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिर्मण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुर्णां हेमन्तमासानां सम्बन्धिषु चरति, ततो द्विसप्ततितमे दिने माघमासे . बहुलपक्षत्रयोदशीलक्षणे सूर्य आवृत्तिं करोति, दक्षिणायनान्निवृत्त्योत्तरायणेन चरतीत्यर्थः, 10 उक्तं च ज्योतिष्करण्डके, पञ्चसु युगसंवत्सरेणूत्तरायणतिथयः क्रमेणैवं यदुत बहुलस्स सत्तमीए १ सूरो सुद्धस्स तो चउत्थीए २ । बहुलस्स य पाडिवए ३ बहुलस्स य तेरसीदिवसे ४ ॥ सुद्धस्स य दसमीए ५ पवत्तए पंचमी उ आउट्टी। १. क्रमेणैव जे१,२ हे२ ।। २. “पढमा बहुलपडिवए बिइया बहुलस्स तेरसीदिवसे । सुद्धस्स य दसमीए बहुलस्स य सत्तमीए उ ॥२४७॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सव्वाओ सावणे मासे ॥२४८॥ टीका- इह सूर्यस्य दशाऽऽवृत्तयो भवन्ति, एतच्चानन्तरमेव भावितम् । तत्र पञ्चावृत्तयः श्रावणे मासे पञ्च माघमासे। तत्र याः श्रावणे मासे भवन्ति तासां मध्ये प्रथमा बहुलपक्षे प्रतिपदि १, द्वितीया बहुलस्य बहुलपक्षस्य सम्बन्धिनि त्रयोदशीरूपे दिवसे २, तृतीया शुद्धस्य शुक्लपक्षस्य दशम्याम् ३, चतुर्थी बहुलपक्षस्य सप्तम्याम् ४, शुद्धस्य शुक्लपक्षस्य चतुर्थ्यां प्रवर्त्तते पञ्चमी आवृतिः ५ । एताः सर्वा अप्यावृत्तयः श्रावणे मासे वेदितव्याः ॥२४७-२४८।। साम्प्रतमेता आवृत्तयो येन नक्षत्रेण युता भवन्ति तन्नक्षत्रनिरूपणार्थमाह- पढमा होइ अभिइणा संठाणाहि य तहा विसाहाहिं। रेवतिए उचउत्थी पव्वाहिं फग्गणीहि तहा ॥२४९॥ टीका- श्रावणमासभाविनीनामन्तरोदितस्वरूपाणां पञ्चानामावृत्तीनां मध्ये प्रथमाऽऽवृत्तिरभिजिता नक्षत्रेण युता भवति, द्वितीया संठाणाहिं ति मृगशिरसा, तृतीया विशाखाभिः, चतुर्थी रेवत्या, पञ्चमी पूर्वाफाल्गुनीभिः ॥२४९॥ अधुना माघमासे भाविन्य आवृत्तयो यासु तिथिषु भवन्ति ता अभिदधाति- बहुलस्स सत्तमीए पढमा सुद्धस्स तो चउत्थीए । बहुलस्स य पाडिवए बहुलस्स य तेरसीदिवसे ॥२५०॥ सुद्धस्स य दसमीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सव्वाओ माघमासम्मि ॥२५१॥ टीका- माघमासे प्रथमाऽऽवृत्तिः बहुलस्य कृष्णपक्षस्य सप्तम्यां भवति १, द्वितीया शुद्धस्य शुक्लपक्षस्य चतुर्थ्याम् २, तृतीया बहुलपक्षस्य प्रतिपदि ३, चतुर्थी बहुलपक्षस्य त्रयोदशीदिवसे ४, पञ्चमी शुक्लपक्षस्य दशम्यां प्रवर्त्तते ५। एताः सर्वा अप्यावृत्तयो माघमासे भवन्ति ॥२५०-२५२॥” इति ज्योतिष्करण्डकस्य मलयगिरिसूरिविरचितायां वृत्तौ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy