SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १६२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रोनेति, तत्र अबाह त्ति किमुक्तं भवति ? बन्धावलिकाया आरभ्य यावत् सप्तवर्षसहस्राणि तावत् तत् कर्म न बाधते, नोदयं यातीत्यर्थः, ततोऽनन्तरसमये कर्मदलिकं पूर्वनिषिक्तम् उदये प्रवेशयति, निषेको नाम ज्ञानावरणादिकर्मदलिकस्यानुभवनार्थं रचना, तच्च प्रथमसमये बहुकं निषिञ्चति 5 द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थिति कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम् मोत्तूण सगमबाहं पढमाए ठिइए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कोसन्ति सव्वासिं ॥ [कर्मप्र० ८३] ति । बाधृ लोडने [पा०धा० ५], बाधत इति बाधा कर्मण उदय इत्यर्थः, न बाधा अबाधा, 10 अन्तरं कर्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका कर्मस्थितिः कर्मनिषेको भवतीत्येवमेके प्राहुः, अन्ये पुनराहुः- अबाधाकालेन वर्षसहस्रसप्तकलक्षणेनोना कर्मस्थितिः सप्तसहस्राधिकसप्ततिसागरोपमकोटीकोटीलक्षणा, कर्मनिषेको भवति, स च कियान् ? उच्यते- सत्तरं सागरोवमकोडाकोडीओ त्ति ॥७०॥ [सू० ७१] चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइदिएहिं 15 वीतिक्कंतेहिं सव्वबाहिरातो मंडलातो सूरिए आउटिं करेति । वीरियपुव्वस्स णं पुव्वस्स एक्कसत्तरिं पाहुडा पण्णत्ता । अजिते णं अरहा एक्कसत्तरिं पुव्वसतसहस्साई अगारमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते । एवं सगरे वि राया चाउरंतचक्कवट्टी एकसत्तरि पुव्व जाव पव्वतिते । 20 [टी०] अथैकसप्ततिस्थानके लिख्यते किञ्चित्, चउत्थस्सेत्यादि, इह भावार्थोऽयम्- . युगे हि पञ्च संवत्सरा भवन्ति, तत्राद्यौ चन्द्रसंवत्सरौ तृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनानां द्वात्रिंशता च द्विषष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयं च द्वादशगुणश्चन्द्रसंवत्सरो भवति, त्रयोदशगुणश्चायमेवाभिवर्द्धितो भवति, ततश्चन्द्र-चन्द्रा-ऽभिवर्द्धितलक्षणे संवत्सरत्रये 25 दिनानां सहस्रं द्विनवतिः षट् च द्विषष्टिभागा भवन्ति १०९२ ६., तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy