________________
[सू० ७०] सप्ततिस्थानकम् ।
१६१ जम्बूद्वीपसम्बन्धिनां द्वादशानामन्तरसम्बन्धिनां द्वादशानामेव द्वीपविष्कम्भसम्बन्धिनां च मीलनादिति । मोहनीयवर्जानां कर्मणामेकोनसप्ततिरुत्तरप्रकृतयो भवन्तीति कथम् ? ज्ञानावरणस्य पञ्च, दर्शनावरणस्य नव वेदनीयस्य द्वे, आयुषश्चतस्रः, नाम्नो द्विचत्वारिंशद्, गोत्रस्य द्वे, अन्तरायस्य पञ्चेति ॥६९॥
[सू० ७०] समणे भगवं महावीरे वासाणं सवीसतिराते मासे वीतिकंते 5 सत्तरीए रातिदिएहिं सेसेहिं वासावासं पजोसविते ।।
पासे णं अरहा पुरिसादाणीए सत्तरिं वासाइं बहुपडिपुण्णाइं सामण्णपरियागं पाउणित्ता सिद्धे बुद्धे जाव प्पहीणे । वासुपुजे णं अरहा सत्तरं धणूई उटुंउच्चत्तेणं होत्था ।
मोहणिजस्स णं कम्मस्स सत्तरिं सागरोवमकोडाकोडीओ अबाहूणिया 10 कम्महिती कम्मणिसेगे पण्णत्ते । माहिंदस्स णं देविंदस्स देवरण्णो सत्तरिं सामाणियसाहस्सीतो पण्णत्तातो। [टी०] अथ सप्ततिस्थानके किमपि लिख्यते, समणेत्यादि, वर्षाणां चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिरात्रे विंशतिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशति दिनेष्वतीतेष्वित्यर्थः, सप्तत्यां च रात्रिंदिवेषु शेषेषु, भाद्रपदशुक्लपञ्चम्यामित्यर्थः, 15 वर्षास्वावासो वर्षावास: वर्षावस्थानं पजोसवेइ त्ति परिवसति सर्वथा करोति, पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमप्याश्रयति, भाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदयमिति । पुरिसादाणीए त्ति पुरुषाणामादानीयः उपादेयः पुरुषादानीयः । अबाहूणिया कम्मट्टिई कम्मणिसेगे पण्णत्ते त्ति, इह किलात्मा अविशिष्टमेव कर्मपुद्गलोपादानं कृत्वा उत्तरकालं 20 ज्ञानावरणीयादिकर्मणां स्वं स्वमबाधाकालं मुक्त्वा ज्ञानावरणीयादिप्रकृतिविभागतया अनाभोगिकेन वीर्येणोदयसहितं तद्दलिकं निषिञ्चति, उदययोग्यं रचयतीत्यर्थः, अतो द्विविधा स्थितिः- कर्मत्वापादनमात्ररूपा अनुभवरूपा च, यतः स्थितिः अवस्थानं तेन भावेनाप्रच्यवनम्, तत्र कर्मत्वापादनरूपां तामधिकृत्य सप्ततिः सागरोपमकोटीकोट्यः, १. भवंति जे२ ॥ २. समेत्यादि जे२ ॥ ३. सर्वथा वासं करोति हे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org