________________
१६० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे एकोनसप्ततिस्थानकम् ।
[टी०] अथाष्टषष्टिस्थानके किञ्चिल्लिख्यते, धायइसंडे इत्यादि, इह यदुक्तम् एवं चक्कवट्टी बलदेवा वासुदेव त्ति तत्र यद्यपि चक्रवर्तिनां वासुदेवानां वा नैकदा अष्टषष्टिः सम्भवति यतो जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुर्णां चतुर्णां तीर्थकरादीनामवश्यं भावः स्थानाङ्गादिष्वभिहितः, न चैकत्र क्षेत्रे चक्रवर्ती 5 वासुदेवश्चैकदा भवतोऽतः षष्टिरेवोत्कर्षतश्चक्रवर्त्तिनां वासुदेवानां चाष्टषष्ट्यां विजयेषु
भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनां चक्रवर्त्यादीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्ते च जम्बूद्वीपप्रज्ञप्त्यां भारत-काच्छाद्यभिलापेन चक्रवर्तिन इति ॥६८॥
[सू० ६९] समयखेत्ते णं मंदरवजा एकूणसत्तरिं वासा वासधरपव्वता 10 पण्णत्ता, तंजहा- पणतीसं वासा, तीसं वासहरा, चत्तारि उसुयारा ।
मंदरस्स पव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो गोतमद्दीवस्स पच्चथिमिल्ले चरिमंते एस णं एकूणसत्तरि जोयणसहस्साइं अबाधाए अंतरे पण्णत्ते ।
मोहणिजवजाणं सत्तण्हं कम्मपगडीणं एकूणसत्तरं उत्तरपगडीतो पण्णत्तातो। 15 [टी०] अथैकोनसप्ततिस्थानके किञ्चिल्लिख्यते, समयेत्यादि, मन्दरवर्जा मेरुवर्जाः,
वर्षाणि च भरतादिक्षेत्राणि वर्षधरपर्वताश्च हिमवदादयस्तत्सीमाकारिण: वर्षवर्षधरपर्वता: समुदिता एकोनसप्ततिः प्रज्ञप्ताः, कथम् ?, पञ्चसु मेरुषु प्रतिबद्धानि सप्त सप्त भरत-हैमवतादीनि पञ्चत्रिंशद्वर्षाणि तथा प्रतिमेरु षट् षट् हिमवदादयो
वर्षधरास्त्रिंशत्तथा चत्वार एवेषुकारा इति सर्वसंख्यैकोनसप्ततिरिति । मंदरस्सेत्यादि, 20 लवणसमुद्रं पश्चिमायां दिशि द्वादश योजनसहस्राण्यवगाह्य द्वादशसहस्रमानः
सुस्थिताभिधानस्य लवणसमुद्राधिपतेर्भवनेनालङ्कृतो गौतमद्वीपो नाम द्वीपोऽस्ति, तस्य च पश्चिमान्तो मेरोः पश्चिमान्तादेकोनसप्ततिः सहस्राणि भवन्ति, पञ्चचत्वारिंशतो १. संडेत्यादि हेर विना ॥ २. चतुर्णा तीर्थकरा हेर विना ॥ ३. “जंबूदीवे दीवे महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिसु वा उप्पजंति वा उप्पज्जिस्संति वा॥" इति स्थानाङ्गसूत्रे ४/२९९ ॥ ४. जम्बूद्वीपप्रज्ञप्तौ तृतीये चतुर्थे च वक्षस्कारे द्रष्टव्यम् ॥ ५. सहस्राणि भवति इति जेसं२ मध्ये पत्रस्याधस्तानिर्दिष्टः परितः पाठः ॥ ६. भवंतीति जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org