________________
१५५
[सू० ६५]
पञ्चषष्टिस्थानकम् । द्वाभ्यां चेत्यादि, यावत्करणात् 'अहाकप्पं अहामग्गं फासिया पालिया सोभिया तीरिया कित्तिया सम्मं आणाए आराहिया यावि भवती' ति दृश्यम् ।
सव्वे विणमित्यादि इतोऽष्टमे नन्दीश्वराख्ये द्वीपे पूर्वादिषु दिक्षु चत्वारोऽञ्जनकपर्वता भवन्ति, तेषां च प्रत्येकं चतसृषु दिक्षु चतस्रः पुष्करिण्यो भवन्ति, तासां च मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, ते च षोडश पल्यकसंस्थानसंस्थिताः, यतः सर्वत्र समा 5 विष्कम्भेण, मूलादिषु दशसहस्रविष्कम्भत्वात्तेषाम्, क्वचित्तु विक्खंभुस्सेहेणं ति पाठस्तत्र तृतीयैकवचनलोपदर्शनाद्विष्कम्भेणेति व्याख्येयम्, तथा उत्सेधेनोच्चत्वेन चतुःषष्टिश्चतुःषष्टिरिति । सोहम्मेत्यादि, सौधर्मे द्वात्रिंशदीशानेऽष्टाविंशतिः ब्रह्मलोके च चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति । चउसट्ठिलट्ठीए त्ति चतुःषष्टिर्यष्टीनां सरीणां यस्मिन्नसौ चतुःषष्टियष्टिकः, मुत्तामणिमये त्ति मुक्ताश्च 10 मुक्ताफलानि मणयश्च चन्द्रकान्तादिरत्नविशेषाः, मुक्तारूपा वा मणयो रत्नानि मुक्तामणयः, तद्विकारो मुक्तामणिमयः ॥६४॥ [सू० ६५] जंबुद्दीवे णं दीवे पणसहिँ सूरमंडला पण्णत्ता ।
थेरे णं मोरियपुत्ते पणसद्धिं वासाई अगारमझे वसित्ता मुंडे भवित्ता णं अगारातो अणगारियं पव्वतिते ।
15 सोहम्मवडेंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसहिँ पणसहि भोमा पण्णत्ता ।
[टी०] अथ पञ्चषष्टिस्थानकम्, तत्र मोरियपुत्ते णं ति मौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरस्तस्य पञ्चषष्टिर्वर्षाणि गृहस्थपर्यायः, आवश्यकेऽप्येवमेवोक्तः, नवरमेतस्यैव यो बृहत्तरो भ्राता मण्डिकपुत्राभिधानः षष्ठगणधरः तद्दीक्षादिन 20 एव प्रव्रजितस्तस्याऽऽवश्यके त्रिपञ्चाशद्वर्षाणि गृहस्थपर्याय उक्तो न च बोधविषयमुपगच्छति यतो बृहत्तरस्य पञ्चषष्टियुज्यते लघुतरस्य त्रिपञ्चाशदिति । सोहम्मेत्यादि, सौधर्मावतंसकं विमानं सौधर्मदेवलोकस्य मध्यभागवर्ति शक्रनिवासभूतम्, एगमेगाए बाहाए त्ति एकैकस्यां दिशि प्राकाराभ्यर्णवर्तीनि १. दृश्यतां पृ० १३९ टि० ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org