________________
१५६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे षट्षष्टिस्थानकम् । भौमानि नगराकाराणि, विशिष्टस्थानानीत्येके ॥६५॥
[सू० ६६] दाहिणट्ठमणुस्सखेत्ता णं छावडिं चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, छावहिं सूरिया तवइंसु वा तवइंति वा तवइस्संति वा।
उत्तरड्डमणुस्सखेत्ता णं छावहि चंदा पभासिंसु वा पभासंति वा पभासिस्संति 5 वा । छावहिं सूरिया तवइंसु वा तवइंति वा तवइस्संति वा ।
सेजंसस्स णं अरहतो छावहिँ गणा छावडिं गणहरा होत्था । आभिणिबोहियनाणस्स णं उक्कोसेणं छावढि सागरोवमाइं ठिती पण्णत्ता। [टी०] अथ षट्षष्टिस्थानकम्, तत्र दाहिणेत्यादि, मनुष्यक्षेत्रस्यार्द्धमर्द्धमनुष्यक्षेत्रं दक्षिणं च तत्तच्चेति दक्षिणार्द्धमनुष्यक्षेत्रम्, तत्र भवा दाक्षिणार्द्धमनुष्यक्षेत्राः, 10 णमित्यलङ्कारे, षट्षष्टिश्चन्द्राः प्रभासितवन्तः प्रभासनीयम्, अथवा लिङ्गव्यत्ययाद्
दक्षिणानि यानि मनुष्यक्षेत्राणाम नि तानि तथा, तानि प्रकाशितवन्तः, पाठान्तरे दक्षिणार्द्धमनुष्यक्षेत्रे प्रभासनीयं प्रभासितवन्तः, ते च एवम्- द्वौ जम्बूद्वीपे चन्द्रौ चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत् कालोदसमुद्रे द्विसप्ततिश्च
पुष्कराधे, सर्वे चैते द्वात्रिंशदधिकं शतम्, एतदर्थं च षट्षष्टिदक्षिणपङ्क्तौ स्थिताः 15 षट्षष्टिश्चोत्तरपङ्क्तौ, यदा चोत्तरपङ्क्तिः पूर्वस्यां गच्छति तदा दक्षिणा पश्चिमायामिति,
एवं सूर्यसूत्रमप्यवसेयमिति । छावहिं गण त्ति आवश्यके तु षट्सप्ततिरभिहितेतीदं च मतान्तरमिति । छावट्ठी सागरोवमाइं ठिइ त्ति, यच्चातिरिक्तं तदिह न विवक्षितम्, यत एवमिदमन्यत्रोच्यते
दो वारे विजयाइसु गयस्स तिन्नऽच्चुए अहव ताई। १. दृश्यतां पृ० १४० टि० ३ ॥ २. "इह कश्चित् साधुर्मत्यादिज्ञानान्वितो देशोनां पूर्वकोटी यावत् प्रव्रज्यां परिपाल्य विजय-वैजयन्त-जयन्ता-ऽपराजितविमानानामन्यतरविमाने उत्कृष्टं त्रयस्त्रिंशत्सागरोपमलक्षणदेवायुरनुभूय पुनरप्रतिपतितमत्यादिज्ञान एव मनुजेषूत्पन्नो देशोनां पूर्वकोटी प्रव्रज्यां विधाय तदैव विजयादिषूत्कृष्टमायुः संप्राप्य पुनरप्रतिपतितमत्यादिज्ञान एव मनुष्यो भूत्वा पूर्वकोटी जीवित्वा सिद्ध्यतीति । एवं विजयादिषु वारद्वयं गतस्य; अथवाऽच्युतदेवलोके द्वाविंशतिसागरोपमस्थितिकेषु देवेषु त्रीन् वारान् गतस्य तानि षट्षष्टिसागरोपमानि अधिकानि भवन्ति । अधिकं चेह नरभवसंबन्धि देशोनं पूर्वकोटित्रयं चतुष्टयं वा द्रष्टव्यम् । नानाजीवानां तु सर्वाद्धं सर्वकालं मतिज्ञानस्य स्थितिः ।" इति विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org