________________
१५३
[सू० ६३]
द्विषष्टिस्थानकम् । पञ्चदशभिर्भागोऽपह्रियते ततश्चत्वारो भागाः समधिका द्विषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते- पञ्चदशभागेन चोक्तलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानं चरति, एवमपक्रामतीत्यपि भावनीयमिति, अत्रास्माभिर्यथादृष्टे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति ।
सोहम्मीत्यादि, तत्र सौधर्मेशानयोस्त्रयोदश विमानप्रस्तटा भवन्ति, सनत्कुमार- 5 माहेन्द्रयोादश, ब्रह्मलोके षट्, लान्तके पञ्च, शुक्रे चत्वारः, एवं सहस्रारे, आनत-प्राणतयोश्चत्वारः, एवमारणा-ऽच्युतयोः, ग्रैवेयकेष्वधस्तनमध्यमोपरिमेषु त्रयः त्रयः, अनुत्तरेष्वेक इति द्विषष्टिस्ते भवन्ति । एतेषां च मध्यभागे प्रत्येकमुडुविमानादिकाः सर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेव विमानेन्द्रका भवन्ति, तत्पार्श्वतश्च पूर्वादिषु दिक्षु त्र्यम्र-चतुरस्र-वृत्तविमानक्रमेण विमानानामावलिका भवन्ति, तदेवं 10 सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे सर्वाधस्तन इत्यर्थः पढमावलियाए त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतम्र आवलिका यस्मिन् स प्रथमावलिकाकस्तत्र, अथवा प्रथमात् मूलभूताद्विमानेन्द्रकादारभ्य याऽऽवलिका विमानानुपूर्वी तया, अथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमा आद्यावलिका तस्याम्, पढमावलिय त्ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया या एकैकस्यां दिशि 15 प्रथमावलिका सा द्विषष्टिर्द्विषष्टिर्विमानानि प्रमाणेन प्रज्ञप्तेति, एगमेगाए त्ति उडुविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिर्द्विषष्टिर्विमानानि प्रज्ञप्तानि, द्वितीयादिषु पुनः प्रस्तटेषु एकैकहान्या विमानानि भवन्ति यावद् द्विषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकस्य पार्श्वत एकैकमेव भवतीति, तथा सव्वे त्ति सर्वे वैमानिकानां देवविशेषाणां सम्बन्धिनो द्विषष्टिविमानप्रस्तटा 20 विमानप्रतराः प्रस्तटाग्रेण प्रस्तटपरिमाणेन प्रज्ञप्ता इति ॥६२॥
[सू० ६३] उसभे णं अरहा कोसलिए तेवहिँ पुव्वसतसहस्साई महारायवासमज्झावसित्ता मुंडे भवित्ता णं अगारातो अणगारियं पव्वइते । १. यावदावलिका जे१ । यावआवलिका खं०॥ २. द्विषष्टिवि हे२ विना ।। ३. एगमेगाए इ त्ति जे१,२
खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |