SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ १३९ [सू० ४७] . सप्तचत्वारिंशत्स्थानकम् । सक्षकाराणि ऋ ऋ ल ल लं(ळ) इत्येतदक्षरपञ्चकवर्जितानि सम्भाव्यन्ते । तथा पभंजणस्स त्ति औदीच्यस्येति ॥४६॥ [सू० ४७] जया णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता णं चारं चरति तया णं इहगतस्स मणूसस्स सत्तचत्तालीसं जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एक्कवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं 5 हव्वमागच्छति । थेरे णं अग्गिभूती सत्तचत्तालीसं वासाइं अगारमज्झावसित्ता मुंडे भवित्ता णं अगारातो अणगारियं पव्वइते । टी०] अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, जया णमित्यादि, इह लक्षप्रमाणस्य जम्बूद्वीपस्योभयतोऽशीत्युत्तरे योजनशते ३६० अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य 10 विष्कम्भो भवति ९९६४०, तत्परिधिस्त्रीणि लक्षाणि पञ्चदश सहस्राणि एकोननवत्यधिकानि ३१५०८९, एतच्च सूर्यो मुहूर्तानां षष्ट्या गच्छतीति षष्ट्याऽस्य भागहारे मुहूर्तगतिर्लभ्यते, सा च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशदुत्तरे योजनशते एकोनत्रिंशच्च षष्टिभागा योजनस्य ५२५१ २९ , यदा चाभ्यन्तरमण्डले सूर्यश्चरति तदाऽष्टादश मुहूर्ता दिवसप्रमाणम्, तदर्द्धन नवभिर्मुहूर्तेः मुहूर्तगतिर्गुण्यते, ततश्च यथोक्तं 15 चक्षुःस्पर्शप्रमाणमागच्छतीति । अग्गिभूइ त्ति वीरनाथस्य द्वितीयो गणधरस्तस्य चेह सप्तचत्वारिंशद्वर्षाण्यगारवास उक्तः, आवश्यके तु षट्चत्वारिंशत्, तत्र १. सर्वेषु हस्तलिखितादर्शेषु लं इति पाठो दृश्यते, किन्तु ळ इति शुद्धः पाठः संभाव्यते ॥ २. पंचवर्तितानि जे२ ॥ ३. 'अ आ इ ई उ ऊ ए ऐ ओ औ अं अः, क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व श ष स ह, क्ष' इति षट्चत्वारिंशद् मातृकाक्षराणि अत्र संभाव्यन्ते॥ ४. “अगारपर्यायद्वारव्याचिख्यासयाऽऽह- पण्णा छायालीसा बायाला होइ पण्ण पण्णा य । तेवण्ण पंचसट्ठी अडयालीसा य छायाला ॥६५०।। व्या० पञ्चाशत् षट्चत्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशच्च त्रिपञ्चाशत् पञ्चषष्ठिः अष्टचत्वारिंशत् षट्चत्वारिंशत् इति गाथार्थः ॥ छत्तीसा सोलसगं अगारवासो भवे गणहराणं। छउमत्थयपरियागं अहक्कम कित्तइस्सामि ॥६५१॥ व्या०- षट्त्रिंशत् षोडशकम् अगारवासो गहवासो यथासङख्यम एतावान गणधराणाम ।... छद्यस्थपर्यायं यथाक्रमं यथायोगं कीर्तयिष्यामि इति गाथार्थः॥ तीसा बारस दसगं बारस बायाल चोइसदगं च । णवगं बारस दस अट्टगं च छउमत्थपरियाओ ॥६५२।। गाथेयं निगदसिद्धा॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाह- छउमत्थपरीयागं अगारवासं च वोगसित्ता णं । सव्वाउगस्स सेसं जिणपरियागं वियाणाहि ॥६५३॥ व्या० छद्मस्थपर्यायम् अगारवासं च व्यवकलय्य सर्वायुष्कस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy