________________
१३८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पञ्चचत्वारिंशत्-षट्चत्वारिंशत्स्थानके । __ तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य ।
एते छन्नक्खत्ता, पणतालमुहुत्तसंजोगा ॥५८॥ महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणतालीसं उद्देसणकाला पण्णत्ता । 5 [टी०] पञ्चचत्वारिंशत्स्थानके त्विदं लिख्यते, समयखेत्ते त्ति कालोपलक्षितं क्षेत्रम्,
मनुष्यक्षेत्रमित्यर्थः । सीमंतए णं ति प्रथमपृथिव्यां प्रथमप्रस्तटे मध्यभागवर्ती वृत्तो नरकेन्द्रः सीमन्तक इति । उडुविमाणे त्ति सौधर्मेशानयोः प्रथमप्रस्तटवर्ति चतसृणां विमानावलिकानां मध्यभागवर्ति वृत्तं विमानेन्द्रकमुडुविमानमिति । ईसिपब्भार त्ति सिद्धिपृथिवी । मंदरस्स णं पव्वयस्सेत्यादि सूत्रे लवणसमुद्राभ्यन्तरपरिध्यपेक्षयान्तरं 10 द्रष्टव्यमिति । सव्वे वि णमित्यादि, चन्द्रस्य त्रिंशन्मुहूर्तभोग्यं नक्षत्रक्षेत्रं समक्षेत्रमुच्यते, तदेव सार्द्ध व्यर्द्धम्, द्वितीयमर्द्धमस्येति व्यर्द्धमित्येवं व्युत्पादनात्, तथाविधं क्षेत्रं येषामस्ति तानि व्यर्द्धक्षेत्रिकाणि नक्षत्राणि अत एव पञ्चचत्वारिंशन्मुहूर्तान् चन्द्रेण सार्द्ध योगं, सम्बन्धं योजितवन्ति । तिन्नेव गाहा, त्रीण्युत्तराणि उत्तरफाल्गुन्य
उत्तराषाढा उत्तरभद्रपदाः ॥४५॥ 15 [सू० ४६] दिट्ठिवायस्स णं छायालीसं माउयापया पण्णत्ता ।
बंभीए णं लिवीए छायालीसं माउयक्खरा पण्णत्ता । पभंजणस्स णं वातकुमारिंदस्स छायालीसं भवणावाससतसहस्सा पण्णत्ता। [टी०] अथ षट्चत्वारिंशत्स्थानके किञ्चिल्लिख्यते, दिट्ठिवायस्स त्ति द्वादशाङ्गस्य माउयापय त्ति सकलवाङ्मयस्य अकारादिमातृकाः पदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन 20 मातृकापदानि उत्पाद-विगम-ध्रौव्यलक्षणानि, तानि च सिद्धश्रेणि-मनुष्यश्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद् भवन्तीति सम्भाव्यते । तथा बंभीए णं लिवीए त्ति लेख्यविधौ षट्चत्वारिंशन्मातृकाक्षराणि, तानि चाऽकारादीनि हकारान्तानि १. इसी जे२ ॥ २. क्षेत्रकाणि खं० ॥ ३. मातृकापदानीव खं० जे२ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org