SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 10 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे वा साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो व्यवस्थापनमित्याचारप्रकल्पः, तत्र क्वचिद् ज्ञानाद्याचारविषये अपराधमापन्नस्य किञ्चित् प्रायश्चित्तं दत्तम्, पुनरन्यमपराधविशेषमापनस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा पञ्चरात्रिकशुद्धियोग्यं 5 मासिकशुद्धियोग्यं चापराधद्वयमापन्नस्ततः पूर्वदत्तप्रायश्चित्ते सपञ्चरात्रमासिकप्रायश्चित्तारोपणात् सपञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् ६, एवं द्विमासिक्यः ६, त्रिमासिक्यः ६, चतुर्मासिक्योऽपीति ६ चतुर्विंशतिरारोपणाः, तथा सार्द्धदिनद्वयस्य पक्षस्य चोद्घातनेन लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा औद्घातिक्यारोपणा, यदाह अद्धेण छिन्नसेसं पुव्वद्धणं तु संजुयं काउं। देजा य लहुयदाणं गुरुदाणं तत्तियं चेव ॥ [ ] त्ति । यथा मासाळ् १५ पञ्चविंशतिकार्द्धं च सार्द्धद्वादश, सर्वमीलने सार्द्धसप्तविंशतिरिति लघुमासः, तथा मासद्वयार्द्ध मासो मासिकस्यार्द्ध पक्ष उभयमीलने सार्दो मास इति लघुद्वैमासिकम् २५, तथा तेषामेव सार्द्धदिनद्वयाद्यनुद्घातनेन गुरूणामारोपणा 15 अनौद्घातिक्यारोपणा २६, तथा यावतोऽपराधानापन्नस्तावतीनां तच्छुद्धीनामारोपणा कृत्स्नारोपणा २७, तथा बहूनपराधानापन्नस्य षण्मासान्तं तप इति कृत्वा षण्मासाधिकं तपःकर्म तेष्वेवान्तर्भाव्य शेषमारोप्यते यत्र सा अकृत्स्नारोपणेत्यष्टाविंशतिः २८, एतच्च सम्यग् निशीथविंशतितमोद्देशकावगम्यम् । अत्रैव निगमनमाह एतावांस्तावदाचारप्रकल्पः, इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा 20 तद्व्यतिरेकेणापि तस्योद्घातिकानुद्घातिकरूपस्य भावात्, अथवैतावानेवायं तावदाचारप्रकल्पः, शेषस्यात्रैवान्तर्भावात्, तथा एतावत्तावदाचरितव्यमित्यपि तथैव। देवगतिसूत्रे स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोश्च परस्परं विरोधित्वेनैकदा बन्धाभावादन्यतरद्वघ्नातीत्युक्तम्, तत्र चैकशब्दग्रहणं भाषामात्र एवावसेयमिति, १. रात्रिकमासिक जे२ ॥ २. स्थानाङ्गटीकायामुद्धृतमेतत् पृ० २७६, ५५८ ॥ ३. जे२ मध्ये 'षण्मासान्तं तप इति कृत्वा' इति पाठः पतितः ॥ ४. कृत्वा नास्ति खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy